________________
(२)
मुनिचन्द्रसूरिविरचितवृत्तिसमेत
तया च मङ्गलं प्रेक्षावत्प्रवृत्त्यर्थं चाभिधेयं सामर्थ्याक्षिप्तं प्रयोजनं संबन्धं चोपदिदर्शयिषुरादावेवेमां गाथामाह
66
सिद्धे निद्धंतरए, केवलवरनाणदंसणसमिद्धे । अभिवंदिऊण सिरसा, विमाणण रइंदए वोच्छं ॥ १ ॥ ' सिद्धान् ' " षिधू शास्त्रे माङ्गल्ये च " इतिवचनादं भवजलधिमध्यमज्जज्जनजातसमुत्तारणप्रवणप्रवरप्रवहणप्रतिमप्रवचनानुशासकान् ईतिदुर्भिक्षमारिप्रभृतिविविधविप्लववारनिवारकातिशायिशुभानुभाववशेन प्राप्तपरममङ्गलभावांश्चार्हत इति, यद्वा "षिधू संराद्धौ " इतिवचनात्सिध्यन्ति स्म - निष्ठितार्था अभूवन्निति सिद्धा: - शिवाचलारुजादिस्थानवतिनो जीवविशेषास्तान् । उभयानपि कीदृशान् ? इत्याह- 'निर्मातरजसः' नितरामपुनर्भविष्णुतया ध्यातं ज्वलज्ज्वलन ज्वालाकल्पाविकल्पशुक्लध्यानतो भस्मभावमापादितम्, एकत्र जीववसनरंजकत्वाद्रजोरागवेदनीयं कर्म तत्क्षयाक्षिप्तक्षयत्वेन शेषघातिकर्म च, अन्यत्र च जीवगुडकत्वेन रजो रूपत्वाद्रजः सर्वमपि कर्म यैस्ते तथा तान् । अथवा निर्गते - विनष्टे ध्वान्तरते-अज्ञानकामक्रीडालक्षणे सर्वदोषहेतू येषां ते तथा तान् । केवले - ज्ञानान्तरविरहितत्वादसहाये वरे - क्षायिकत्वात्प्रधाने ये ज्ञानदर्शने-विशेषसामान्यावबोधरूपे ताभ्यां समृद्धाःसम्यग्वृद्धिमनुप्राप्ता ये ते तथा तान् । किम् ? इत्याह--' अभिवन्द्य ' प्रणत्य 'शिरसा' मस्तकेन विमाननरकेन्द्रकान् 'वक्ष्ये' अभिधास्ये । विमानेन्द्रका नाम - उडुविमानादयः सर्वार्थसिद्धिविमानपर्यवसाना आबलिकाप्रविष्टविमानमा लागणनामूलभूतत्वेन विमानेषु मध्ये इन्द्रा इवेन्द्रका ऊर्ध्वलोकगता द्वाषष्टिः, तदेकश्रेणिप्रतिबद्धतया चोपचारादन्यान्यप्या