________________
देवेन्द्रप्रकरणम्। . (१६३) प्रथमद्वितीयौवेयकयोरन्तरे मूलान्तरापेक्षया त्रिपञ्चाशत्तमे तस्यापि तृतीये सप्तभागे शर्कराप्रभायाः । नवमग्रैवेयकसर्वार्थसिद्धप्रस्तटान्तरे सर्वापेक्षयेकषष्टितमे तस्यापि सप्तमे सप्तांशे रत्नप्रभायाः पिण्डो निष्ठां याति । अत्र च नवमादीनां प्रस्तटान्तराणां ये पञ्चमादयो भागास्ते तलभागादूर्ध्व ज्ञातव्या इति ॥ ३५७ ॥ अथात्रैव कञ्चन विशेष वजुकाम आह- .
रयणप्पहाऍ ठाणे, सत्त वि खलु उसियाओ पुढवीओ । हेहा अणुत्तराणं, सोवाणगदीअ बोधव्वा ॥ ३५८ ॥
'रत्नप्रभायाः ' प्रथमष्टथिव्याः ' स्थाने ' इति विभक्तिव्यत्ययात् 'स्थानात् ' अवकाशात् , किं च रत्नप्रभायाः स्थानम् ! इति चेदुच्यते-समभूमितलादधोभाग इति, ततः सकाशात्सप्तापि किं
पुनरेकैकेत्यपिशब्दार्थः ' खलुः' वाक्यालङ्कारे ' उच्छ्रिताः ' ऊर्ध्वमु• त्पाटिताः पृथिव्यः रत्नप्रभायाः, ततः किम् ? इत्याह-अधम्तात् . " अणुत्तराणं' ति अनुत्तरेभ्यः सोपानगत्या बोडव्याः, यथा हि सोपानान्यधोऽधो विस्तृतानि भवन्ति, एवमेता अपि रत्नप्रभाद्याः स्वस्थानोत्पाटिताः क्रमेणैव बुद्ध्या लोकान्तमारोपिता इति ॥ ३५८ ॥ संप्रति यदैता एव महातमःप्रभाप्टथ्वीमादौ कृत्वा उपरि पिण्डोऽधस्ताच्च · तदवकाशक्षेत्रमित्यनेन क्रमेण लोकान्तादवलम्व्यन्ते तदा कम्याः पृथिव्याः कस्मिन् स्थाने पिण्डः पततीति मनसि समाधाय गाथाद्वयमाह
रयणादीया हेटा, वितिया तइया उ वंभलोगम्मि । पंका लंतयठाणे, धूमा सहसार उवरिं तु ॥ ३५६ ॥ 'रत्नाद्याः ' रत्नप्रभाप्रभृतिकाः पश्चानुपूर्व्या ' अधस्तात् ' अधो