________________
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
पञ्चमादिभागेप्वित्यर्थः, किम् ? इत्याह-- स्वस्थानादुच्छ्रिताः सत्यः ' सर्वत्र ' सर्वेषु वक्ष्यमाणेषु भागेषु क्रमेण पतन्ति व्यि ॥ ३५५ || नवादिभागाने वाह
(१६२)
नवद्वारस गुणतीस पतीस तह य चोयाला । तेवराणे एगट्ठी, य अंतरा होंति पुढवी || ३५६ ||
6
नव ' त्ति प्राकृतत्वात् नवमं अष्टादशं एकोनत्रिंशं पञ्चत्रिंश तथा च ' चोयाल ' ति चतुश्चत्वारिंशं ' तेवण्णे ' त्ति त्रिपञ्चाशं
' एगट्ठी य ' त्ति एकषष्टं च, एतान्यन्तराणि प्रतीत्य विभक्तिलोपश्च सर्वत्र प्राकृतत्वाद्, भवन्ति ष्टथिव्य इति ॥ ३५६ ॥ एतेष्वेवान्तरेषु भागान्निर्दिदिक्षुराह—
पंच तिग एग छक्कग, चक्क तिग सत्तमेसु भागे । सट्टणमूसियानो, सव्वत्य पति पुढवीओ || ३५७ ॥ अर्षत्वात् पश्चमतृतीयएक (प्रथम) षष्ठचतुर्थतृतीय सप्तमेषु भागेषु यथाक्रमं शेषं प्राग्वत् । अयमत्र भावः - इह किल द्वाषष्टिरूर्ध्वलोक - स्तटाः, एकषष्टिश्च तदन्तराणि । तत्र सौधर्मेशान संबन्धिनोर्नवभदशमयोः प्रस्तटान्तरे तस्यापि पञ्चमे सप्तभागे महातमः प्रभाष्टथ्वीपिण्डो निष्ठां श्राति । सनत्कुमारमाहेन्द्रसंबन्धिपञ्चमषष्ठप्रस्तटान्तरेषु उडुप्रस्तटान्तरापेक्षयाऽष्टादशे तस्यापि तृतीयसप्तांशे तमः प्रभायाः । ब्रह्मलोकचतुपञ्चमस्तटान्तरे मूलमपेक्ष्यैकोनत्रिंशे तस्यापि प्रथमे सप्तांशे घूमप्रभायाः । लान्तकबतुर्थपञ्चमप्रस्तटान्तरे सर्वान्तरापेक्षया पञ्चत्रिंशत्तमे तस्यापि षष्ठे सप्तांशे पङ्कप्रभायाः । सहखारस्यानतप्राणतयोश्च कल्पयोरन्तरे मूलान्तरापेक्षया चतुश्चत्वारिंशे तस्यापि चतुर्थे सप्तांशे वालुकाप्रभायाः ।