________________
(१४२) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं . . परिमाणं ' ति “ क्रमू पादविक्षेपे " इति वचनात् क्रमः-पादविक्षेपलक्षणम्तस्य परिमाणं भवति, इदं क्षेत्रतः क्रमपरिमाणम् । कालतस्तु'अहाइ छम्मासियं तु कालस्स' ति दिवसमादि कृत्वा षण्मासं यावदनेन क्रमेण गमनं तत् पाण्मासिकं क्रमपरिमाणं कालतो भवति । 'आयामपरिहिवित्थर' त्ति आयामः-देयं परिधिः-परिक्षेपः विस्तारःविष्कम्भस्तान् यथासंभवं ' देवगतिभिः ' चण्डादिकाभिः पूर्वोक्तकमपरिमाणयुक्ताभिर्मिमीत इति संवन्धः । “ चंडाए विकंभो, चवलाए तह य होइ आयामो । अभितर जयणाए, बाहिरपरिही उ वेगाए ॥१॥" मातव्या इति क्रियायोगः । " चत्तारि वि सकमेहि, चंडाइगईहि जंति छम्मासं । तह वि न वि जति पारं, केसिंचि सुरा विमाणाणं ॥ १ ॥' अत्र चाभ्यन्तरपरिधिर्विमानप्राकारमध्यभागमपेक्ष्य बाह्यपरिधिस्तु विमानष्टथ्वीपर्यन्तमपेक्ष्य मन्तव्य इति । तथा 'जीवाः' एकेन्द्रियाः पृथिवीकायिकरूपाः चकारस्य व्यवहितसंबन्धात् 'पुद्गलाश्च'
औदारिकादिवर्गणारूपाः 'व्युत्क्रामन्ति' निरन्तरं विमानतयोत्पद्यन्ते, उपलक्षणाच्च्यवन्ते न तु विमानाकारः । यत एवं ततस्तानि शाश्वतानि विमानानि द्रव्यरूपतया वर्तन्त इति ॥ ३१५ ॥ अथोच्चत्वद्वारं गाथाद्वयेनाह
सोहम्मे ईसाणे, उच्चत्तं पंच जायणसयाई । सेसाण वि सव्येसि, सयपरिवड्डीऍ नेयव्वं ॥ ३१५ ॥ 'सौधर्मे ईशाने' सौधर्मेशानयोः कल्पयोरित्यर्थः, उच्चत्वं विमानमध्यवर्तिप्रधानप्रासादानां पञ्च योजनशतानि । शेषाणामपि कल्पानां सर्वेषां शतपरिवृद्धयोच्चत्वं नेतव्यमिति ॥ ३१५ ॥