________________
(१३८) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं स्थितः सर्वकनकभयः । स चानेकैः पञ्चवर्णैः कपिशीर्षकैोजनायामैर योजनविस्तृतैः किश्चिदूनयोजनोच्छ्रितैर्मणिमयैरुपशोभितः । तस्य चैकैकस्यां बाहायामेकैकं द्वारसहस्रं भवति । तानि च द्वाराणि पञ्चयोजनशतोच्छ्रितानि अतृतीययोजनशतविस्तृतानि तावत्प्रमाणप्रवेशानि रत्नकनकमयानि । विमानमध्यभागवर्तिवक्ष्यमाणलक्षणा उपकारिकलयनोपरिप्रासादा पूर्वोत्तरस्यां दिशि योजनशतायामा पञ्चाशद्योजकाविस्तृता. योजनसप्तत्युच्चा सभा सुधर्माभ्या (ख्या) भवति । उपकारिकलयनमध्ये च मूलप्रासादः पञ्चयोननशतोचः, अतृतीययोजनशतविस्तृतः । एतसर्व राजप्रसेनज़िदुपाङ्गे साक्षादेवोपलभ्यते । एतदई च सर्वत्र चमरचञ्चाबलिचञ्चयोर्वाच्यम् । प्रस्तुतसूत्रोक्तं द्वारप्रमाणं सहस्रद्वयलक्षणं मतान्तरसंभाव्यतमिति (मतान्तरं संभावितव्यमिति) ॥३०॥ तथा--- - सोहम्मे ईसाणे, बोधव्वा ओवगारिया लेण (णा)। • एगं तु सयसहस्सा, विकंभायामओ भणियं (या) ॥३०६॥
सौधर्मे ईशाने बोद्धव्यानि 'औपकारिकानि' मूलप्रासादोपकारप्रयोजनानि लयनानि, किम् ? इत्याह-'एकं तु' एकमेव शतसहस्रं 'विष्कम्भायामतः ' विष्कम्भेनायामेन च प्रभणितानि तीर्थकरगंणधरादिभिः । उच्छ्रयश्चैतेषां योजनप्रमाणः शास्त्रान्तरोक्तो द्रष्टव्यः । एतानि च किलोपकारिकलयनानि देवकुलपीठबन्धवन्मूलप्रासादपीठरूपाणि बो
व्यानि । तदुपरि मूलप्रासादाः पञ्चयोजनशतोच्छ्याः , तदनु च चतुर्दिशि तत्परिवारभूताश्चत्वारः, तेषामपि पूर्वक्रमेणैव चत्वारश्चत्वार इति षोडश, एषामपि प्रत्येकं प्रत्येकं चत्वार इति चतुःषष्टिः । १ राजप्रश्नीयोपाने इत्यर्थः ।