________________
देवेन्द्रप्रकरणम्।... (१३३) इत्याह - [ “एकादि'] एक आदिः-प्रथमो यस्य स तथा तम्, पुनः कीदृशम् ? इत्याह----'एकाधिकं एकेनाधिकमिति ॥३०२ ॥ ततोऽपि किं कार्यम् ? इत्याह
तं आईसंजुत्तं, हिडिमरयणीयो गच्छठाणसमा । ठावेत्तु घेत्तुमेगं, एकारसभाग काउमहे ॥ ३०३॥ 'त' एकाद्यधिकतया स्थापितं गच्छराशिं आदिना-आदौ स्थापितेनैव राशिना संयुक्तं-समेतं कुर्यात् । तथा 'अधस्तनरत्नीन्' प्राग्देवलोकदेहप्रमाणहस्तान् सप्तादिलक्षणान् , कथंभूतान् ? इत्याह- गच्छस्थानसमान् ' प्राग्विन्यस्तशोधयिप्यमाणराशिस्थानप्रमाणान् तदुपरिष्टादेव 'स्थापयित्वा' तावत्सु स्थानेषु विन्यस्यर्थः, ततो गृहीत्वा एकं रत्नि तेभ्य एव रत्निभ्यः सकाशात् तं चैकादशभागान् कृत्वा 'अधः' इति तेभ्य एव रनिभ्योऽधस्तात्स्थापयेति ॥ ३०३ ॥ ततोऽपि किम् ? इत्याह• प्रादीसहियं सोहे, एकारसहित्तु (हिं तु) तत्य जं सेसं ।
• तं सेसरयणिसहियं, अहिअहियतरुस्सयं जाण ॥ ३०४ ॥ .. आदिना-प्रागुक्तस्वरूपेण सहित-गच्छस्थानसमं स्थापितं 'शोध· येत्' अपनयेत् । प्राकृतेभ्य एकादशभ्यस्तु भागेभ्यस्तत्र शुद्धे यच्छेषं
तत् ' शेषरनिसहितं ' उद्वरितहस्तसमन्वितं ' अधिकाधिकाऽतरोच्छ्यं' - अधिकाधिकेषु-पूर्वपूर्वकल्पस्थितेहर्यादिसागरोपमलक्षणाया एकादिक्रमेण वृद्धिमुपागतेप्वतरेपु-सागरोपमेषूच्छ्यं देहगतं जानीहि ॥ ३०४ ।। अयमस्य गाथाष्टकस्य भावार्थः
सौधर्मेशानकल्पद्वयस्थितेर्द्धिसागरोपमरूपायाः सनत्कुमारमाहेन्द्रकरुपद्वयस्थितेश्च सप्तसागरोपमरूपाया विशे(ले)षः पञ्च, तेभ्यश्चैकस्मिन्