________________
( १३२) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं - ईप्सितकल्पस्थित्योर्द्धयोईयोरुत्सृष्टयोः ‘यः' कश्चित् 'तुः' पूरणे 'विशे(श्ले)पः' पञ्चकादिलक्षणों राशिः तस्माद् गृहीत्वा 'एकं' रूपं तच्च 'भागान्' अंशान् कृत्वा एकादश अत्र च छेदः 'एकार' ति एकादशलक्षणः स्थाप्य इति ॥ ३०० ॥ ततः किं कुर्यात् ? इत्याह- ..
तं एगणं सोहिय, विसेसरासि तु तेहिँ भागेहिं । एसा आदी सोझा, एकारसग्रंसमझाओ ॥३०१॥ . तं विशे(श्ले)षराशिमित्युत्तरेण योगः, एकोनं' एकेनोनीकृतं सन्तं प्राप्तचतुष्ककादिरूपमित्यर्थः 'शोधयित्वा' अपनीय 'विशे(श्ले)घराशि' उक्तरूपं, 'तुः' एवकारार्थो भिन्नक्रमश्च, केभ्यः सकाशाच्छोधयित्वा ? इत्याह-'तेभ्य एव' एकादशसंख्येभ्यो भागेभ्यः, ततः किं सत्यम् ? इत्याह'एस'त्ति एष विशे(ले)पराश्यपनयनेन संपन्नो राशिः सप्तकादि (:'आदिः) आदिनामा 'शोध्यः' अपनेयः, कुतः ? इत्याह-' एकादशांशमध्यात् ' सामर्थ्याद् द्वितीयस्थानव्यवस्थापितेभ्य एकादशभ्योऽशेभ्यः सकाशादिति ॥ ३०१ ॥ ततः
सेसेण गुण(णे) छेयं, छेयंसोवट्टणं करेऊणं ।' . सेसेण समं गच्छं, ठावय एगादि एगहियं ॥ ३०२ ॥.
'शेषेण' एकोनीकृतविशे(श्लेषराशिना चतुष्कादिनेत्यर्थः ‘गुणयेत्' ताडयेत् 'छेद' आदिशुद्धौ सत्यां योऽवशिष्टो राशिस्तस्य संबन्धिनमेकादशलक्षणम्, ततस्तुल्येन राशिना भागं दत्त्वा छेदांशयोर्यल्लघूकरणं तच्छेदांशापवर्तनं तत् ' कृत्वा' विधाय ततः 'शेषेण' अनन्तरोक्तस्वरूपेण 'सम' तुल्यं 'गच्छं' अनन्तरमेवोपपादितमेकैकादशभागलक्षणं सच्छेदमेव ' स्थापय' न्यस्य प्राग्निरूपितादिसंज्ञराशेरनन्तरमेव, कीदृशम् ?