________________
(१०४) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं तस्य राशेर्हरेदागम् , ततो भागे हृते यल्लब्धं तत्र शतं 'सत्तरं 'ति सप्तत्यधिकं भवतीति ॥ २३५ ॥
तं तित्यं काऊणं, सोहणभाग हराहि तिहि पच्छा। जं लद्धं तं दुगुणं, खिव तंसे इयरमेगगुणं ॥ २३६ ॥
'तं' राशिं 'त्रिस्थं ' स्थानत्रयस्थापितं कृत्वा शोधनभागं हर त्रिभिः, पश्चाद्यल्लब्धं चतुष्टयरूपं तद्विगुणं क्षिप‘त्र्यसे' त्र्यस्रविमानराशौ, 'इयरं 'ति इतरस्मिंश्चतुरस्रराशौ एकगुणं क्षिपेति ॥ २३६ ॥ :
इय माहिंदत्थं पडि-रासीए तिण्णि वीहरासीओ। .
तो णं सणंकुमारे, वट्टगरासिं करे 'तिगुणं ॥ २३७ ॥ . _ 'एनं ' त्रिस्थं 'माहेन्द्रस्थं ' माहेन्द्रदेवलोकवर्तिनं राशिं सप्तत्यधिक-अष्टसप्तत्यधिक-चतुःसप्तत्यधिकशतलक्षणं एकत्र स्थाने स्थापयित्वेति गम्यते, ततः किं कर्त्तव्यम् ? इत्याह--प्रतिराश्या द्वितीयस्थाने स्थापयित्वा एतानेव त्रीनपि वृत्तत्र्यस्रचतुरस्रसंज्ञितान् ‘इह' प्रस्तावे राशीन, ततः 'णं' इति वाक्यालङ्कारे [ 'सनत्कुमारे'] सनत्कुमारदेवलोके वृत्तकराशिं कुर्यात् त्रिगुणम्, पूर्वदक्षिणापरदिग्गतवृत्तविमानानां सनत्कुमारेन्द्रस्याऽऽभाव्यत्वादिति ॥ २३७ ॥ ततोऽपि किं कर्त्तव्यम् ? इत्याह
तिगुणीकए उ वट्टे, तंसे दुगुणे तहेव चउरंसे । पच्छा मज्झिल्लिंदा, बारस बट्टेसु पक्खेवो ॥ २३८ ।। त्रिगुणीकते तु 'वृत्ते' वृत्तराशौ त्र्यसे द्विगुणे तथैव चतुरस्रे द्विगुण एव पश्चान्मध्यमेन्द्रकाद् द्वादश वृत्तेषु विमानेषु प्रक्षेपः कर्त्तव्य इति ॥ २३८ ॥ एवंकते सति सनत्कुमारे यल्लब्धं तद्दर्शयितुमाह- .