________________
देवेन्द्रप्रकरणम्। (१.३) एकत्रिंशत् ‘शतसहस्राणि' लक्षाः अष्टानवतिर्भवेत्सहस्राणि द्वे च शते त्रिनवते सौधर्मे 'पुष्पकीर्णानां ' पुप्पप्रकरवद्विप्रकीर्णरूपाणां पुष्पावकीर्णानामित्यर्थः, सौधर्मसामान्यविमानेभ्यो द्वात्रिंशल्लक्षप्रमाणेभ्यः सप्तदशशतानां सप्तोत्तराणां श्रेणिप्रतिबद्धविमानानां शोधने शेषस्य पुष्पावकीर्णराशेरेतत्संख्यस्य संभवादिति ॥ २३२ ॥ सत्तावीसं लक्खा, अट्ठाणउतिं भवे सहस्साई ।
सत्त सया वासीया, ईसाणे पुप्फकिराणाणं ॥ २३३ ॥ - सप्तविंशतिर्लक्षा अष्टानवतिर्भवेयुः सहस्राणि सप्त शतानि द्वयशीतानीशाने पुष्पकीर्णानाम् , अत्रापि ईशानविमानेभ्योऽष्टाविंशतिलक्षप्रमाणेभ्योऽष्टादशाधिकद्वादशशतप्रमाणश्रेणिप्रतिबद्धविमानशोधनके कते प्रस्तुतविमानसंख्यासंभव इति ॥ २३३ ॥ अथ सनत्कुमारमाहेन्द्रयोः श्रेणिगतविमानप्रमाणानयनाय करणं करणफलं च गाथाष्टकेनाह- · अउणापण्णडतीसामुहभूमिसमास अद्धगं णेच्छे ।
बारसत्रो ओलंबो, तस्सद्धं गेगिहउं गुणए ॥ २३४ ॥ . . एकोनपञ्चाशदष्टत्रिंशल्लक्षणयोर्मुखभूम्योः समासः सप्ताशीतिलक्षणः अर्द्धकं-अभावलक्षणं 'न' नैव ‘इच्छति' प्रतिपद्यते यतः ततः 'द्वादशकोऽवलम्बः' प्रस्तटप्रमाणलक्षणो यो वर्तते तस्याई गृहीत्वा तेन गुणयेन्मुखभूमिसमासार्द्धमेवेति ॥ २३४ ॥
तो वारस सोहणयं, अवणेहि तिहिं च तो हरे भागं । भागहिए जं लद्धं, तत्थ सयं सत्तरं होइ ॥ २३५ ॥
ततोऽवलम्बाईगुणितमुखभूमिसमासराशेः संपन्नद्वाविंशत्यधिकपञ्च• शतप्रमाणात्सकाशाद्वादशशोधनकं 'अपनय' स्फेटय, त्रिभिश्च 'ततः'