________________
देवेन्द्रप्रकरणम्। विंशत्यधिकसप्तशतलक्षणः शक्रस्याऽऽभवतीति ॥ २१६॥ इत्थं सामान्यतो वृत्तादिविमानानामाभवव्यवहारं प्रतिपाद्य संप्रति पूर्वोक्तमर्थ निगमयन् वृत्तादिविमानाऽऽभवद्व्यवहारमेव संख्यया प्रतिपादयितुकामः संवन्धमारचयन् गाथाद्वयमाह-- एवं एते भणिया, वट्टा तंसा तहेव चउरंसा । सोहम्माईयाणं, सव्वेसि आणुपुवीए ॥ २१७ ॥ संपइ पुण सोहम्मे, ईसाणे चेव सक्कराईणं । वट्टाई केवइया, कस्स त्ति अश्रो परं वोच्छं ॥ २१८॥ 'एवं ' अनेन प्रकारेण 'एते' विमानाः ‘भणिताः ' उक्ता वृत्तारूयतास्तथैव चतुरस्राः, केषाम् ? इत्याह--' सौधर्मादीनां ' सौधमेंशानद्वयादिकल्पानां सर्वेषां' समस्तानां 'आनुपूर्व्या' अनुक्रमेणेति ॥२१॥ संप्रति पुनः सौधर्मे ईशाने चैव — सक्कराईणं ' ति शक्रः शक्र एव, ततोऽप्यतिशयेन राजनाद्राजा-ईशानेन्द्रः, ततः शक्रराजयो:-सौधर्मेशाननायकयोरित्यर्थः, 'वृत्तादयः' विमानविशेषाः कियन्तः । 'कस्य ' इति शक्रादेः ' इति ' एतत् ‘अतः परं' एतदूई 'वक्ष्ये', भणियामीति ॥ २१८ ॥ एतदुपयोगि तावत्करणमाह... मुहभूमिसमासद्धं, ओलम्वगुणं ससोहणगरहियं । - तिहि भइए तिह रासी, सोहणगदुगभागजुया ॥२१॥
मुखभूमिसमासाई अवलम्वगुणं ' अवलम्बकेन त्रयोदशरूपेण गुणितं स्वशोधनकरहितं क्रियते, ततोऽस्मिन् राशौ त्रिभिर्भक्ते यल्लभ्यते तत् 'तिह रासि ' ति त्रिप्रकारराशितया व्यवस्थाप्यते । एतेष्वेव