________________
(९६)
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
मिन्द्रभावश्चेत्येष्वेवायं क्रम इति ॥ २१४ ॥ उपरितनदेवलोकेषु तु यथाऽऽवलिकाखामित्वं भवति तथा दर्शयितुमाह
तेगा परं इंदाणं, चउद्दिसि श्रावली मुणेयव्वा । जाओ वह विमाणाहि णिग्या जस्स जइ कप्पे ॥ २१५ ॥ ' तेन ' इति ततः सौधर्मादिकल्पचतुष्टयात् 'परं' अग्रतः 'इन्द्राणां ' ब्रह्मलान्तकादीनां ' चतुर्दिशि ' चतसृष्वपि दिक्षु ' आवल्यः 'fa: मानश्रेणयो मुणितव्याः ' याः ' आवल्यः ' वृत्तविमानेभ्यः ' वृत्तविमानानि – इन्द्रकनामान्यवधीकृत्य ' निर्गताः ' प्रवृत्ताः 'यस्य' इन्द्रस्य ब्रह्मादेः ' यावत्यः ' यत्प्रमाणाः प्रतिप्रस्तटं चतुप्प्रमाणा इत्यर्थः 'कल्पे': ' ब्रह्मलोकादौ । इदमुक्तं भवति - ब्रह्मलोकादिषु चतुर्षु देवलोकेष्वानतप्राणतयोरारणाच्युतयोश्च द्वयोर्द्वयोर्देवलोकयोर्ये ब्रह्मादयः षडिन्द्रास्तेषां यथाक्रमं स्वकल्पगता आवलिका आभवन्तीति ॥ २१५ ॥ संप्रति शक्रशानयोः पौरस्त्यपाश्चात्ये आवल्यौ प्रतीत्योक्तमपि स्वामित्वविषयविभागं किञ्चिद्विशेषतोऽभिधातुमाह
पत्थडतेरे बट्टा, जत्तियमेत्ता हवंति गुणिया उ । उत्तरत्र मोत्तू, सेसा सव्वे विसकस्स ॥ २१६ ॥
?
प्रस्तटत्रयोदशके वृत्ता विमाना यावन्मात्रा भवन्ति गुणिताः 'तुः पूरणे ' उत्तरतः ' उत्तरस्यां दिशि मुक्त्वा वृत्तविमानानि ' शेषाणि पूर्वदक्षिणपश्चिमावलिकासबन्धीनि 'सर्वाण्यपि ' निरवशेषाणि शक्रस्य । इह किल सौधर्मेशानयोर्नव शतानि पञ्चषष्ट्यधिकानि [ वृत्तविमानानि ] सर्वप्रस्तटगतवृत्तविमानसंयोजनेन भवन्ति । तत्रोत्तरदिग्गतान्यष्टत्रिंशदधिकद्विशतप्रमाणानि वृत्तविमानान्यपनीय शेषो वृत्तविमानराशिः सप्त