________________
(८६) मुनिचन्द्रसूरिविरचितहत्तिसमेत ___ मुखभूमिसमासाई 'खकप्रतरगुणं तु ' सौधर्मादिस्वकीयप्रतरगुणितं पुनः शोधनकशुद्ध क्रियते, ततस्त्रिभिर्भक्ते तस्मिन् राशौ यल्लभ्यते 'तिह रासि' त्ति तत्रिधा राशितया व्यवस्थाप्यते । ततः किं क्रियते ? इत्याह---शोधनकहिकेकभागयुतौ त्र्यस्रचतुरस्रराशी क्रियेते । अयमत्राभिप्रायः-सौधर्मेशानयोर्मुखं द्वाषष्टिः, भूमिश्च पञ्चाशत् , तत्समासाई षट्पञ्चाशत् , तम्यां खप्रतरैस्त्रयोदशभिर्गुणितायां जातानि ' सप्तशतान्यष्टाविंशत्यधिकानि, एतेभ्यश्चापनीते चतुर्दशलक्षणे शो- . धनके जातानि सप्तशतानि चतुर्दशाधिकानि ७१४, पुनस्तेपुं त्रिभिभक्तेषु लब्धमष्टात्रिंशं शतद्वयम् , तस्मिन् त्रिस्थानस्थिते शोधनकस्यापि चतुर्दशलक्षणस्य त्रिभिर्भागो दीयते, लब्धश्चतुष्ककः द्वौ चावशिष्टौ, स च चतुष्ककस्त्रिषु स्थानेषु स्थाप्यते, ततो द्वौ - चतुष्कौ त्र्यस्रेषु क्षिप्येते एकश्चतुरस्रेषु, यौ च द्वाववशिष्टौ तयोरप्येकरूयस्रेषु एकश्चतुरलेप्विति ॥ १८९ ॥ यदा मुखभूमिसमासराशिः क्वापि कल्पे नाज़कर्तु पार्यते तदा का वार्ता ? इत्याह
मुहभूमिसमासकए, रासी तु ण देज तत्थ जो अद्धं । तस्स सगोलंबद्धं, गहेउ गुण सेस जह पुव्वं ॥ १६० ॥
मुखभूम्योः समासे कृते ‘राशिस्तु' राशिः पुनः 'न' नैव 'दद्यात्' प्रयच्छेत् 'तत्र' वृत्तादिप्रमाणानयने प्रक्रान्ते ‘यः' कश्चित् — अर्द्ध' द्विरूपं भागं 'तस्य' राशेः 'खकावलम्बाई ' निनकल्पप्रतरप्रमाणाईलक्षणं 'गृहीत्वा' आदाय गुणय प्रकृतमेव राशिशेष (राशिं 'शेष') शोधनकशुद्धयादिकर्म ‘यथा' इति दृष्टान्तार्थः 'पूर्व नरकवक्तव्यतायामिति ॥ १९० ॥ सौधर्मादिषु शोधनकप्रमाणमाह