________________
अतीन्द्रियार्थदर्शिपरीक्षा
शून्यानात्मादिरूपेण तात्त्विकेन महान्मतिः ॥ ३४४१ ॥ शून्यानात्मादिरूपस्य भाविकत्वं च साधितम् ।
भूतार्थभावनोद्भूतेः प्रमाणं तेन तन्मतम् ॥ ३४४२ ॥ एतच्च शून्यादिज्ञानं प्रत्यक्षप्रमाणं साधयन्नाह—
॥ ३४४३ ॥
प्रत्यक्षं व्यक्तभासित्वात् प्रमाणं वस्तुसम्मतेः'। चक्षुराद्याश्रयोद्भूतनीलादिप्रतिभासवत् सम्भवत्येकविज्ञाने सकृत् स्पष्टावभासनम् । सर्वेषामपि धर्माणामतश्चैवं प्रतीयताम् ॥ ३४४४॥
तथा विभाव्यमानत्वाद् अङ्गनात्मजचोरवत्। इच्छामात्रमुखीभावा भावनापि न दुर्लभा ॥ ३४४५ ॥ [G.897] स्फुटप्रतिभासित्वेनाविकल्पतया प्रमाणप्रसिद्धार्थविषयत्वेनाविसंवादितया चक्षुरादिज्ञानवत् प्रत्यक्षप्रमाणमेतत् । ततश्च भावनामात्रभाविनि स्फुटप्रतिभासित्वे सिद्धे सिद्धमेव सर्वधर्माणामेकज्ञाने युगपत्स्फुटप्रतिभासनमिति सिद्धा व्याप्तिः । एवं प्रतीयतामिति सम्भवत्येकविज्ञाने सर्वधर्माणां सकृत्स्पष्टावभासनंमिति । प्रयोगः - ये ये विभाव्यन्ते ते सम्भवत्सकृदेकविज्ञानस्फुटप्रतिभासना:, यथाऽङ्गनादयः । सर्वधर्माश्च भाव्यन्ते इति स्वभावहेतुः । न चायमसिद्धो मन्तव्य' इत्यादर्शयन्नाह - इच्छेत्यादि । पूर्वं च विस्तरेण भावनासम्भवस्य प्रतिपादितत्वादिति नासिद्धो हेतुः ॥ ३४४३-३४४५ ॥
एवं स्फुटप्रतिभासित्वस्य भावनामात्रानुबन्धित्वप्रतिपादनेन व्याप्तिं प्रसाध्य साम्प्रतं मौलं प्रमाणार्थं दर्शयन्नाह
भावनोत्कर्षनिष्ठैकबुद्धिस्पष्टप्रकाशनाः
1
• वस्तुसत्त्वादिहेतुभ्यः सर्वधर्माः प्रियादिवत् ॥ ३४४६ ॥ एवं च यस्य वस्तुत्वसत्त्वोत्पादादिलक्षणाः। निश्चये हेतवः शक्ताः को न तं साधयिष्यति ॥ ३४४७ ॥ एकज्ञानक्षणव्याप्तनि:शेषज्ञेयमण्डलः
1
• नरामरशिरोरत्नभूतः " सिद्धोऽत्र सर्ववित् ॥ ३४४८ ॥
भावनोत्कर्षस्य निष्ठा यस्यामेकबुद्धौ सा तथोक्ता । गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिः । भावनोत्कर्षनिष्ठायामेकबुद्धौ स्पष्टं प्रतिभासनं येषा ते तथोक्ताः । यस्य च ज्ञाने ते तथा भासन्ते स सकृदेकज्ञानव्याप्ताशेषज्ञेयमण्डलः सकलनरामरचूडामणिभूतः सिद्धः सर्वज्ञ इति ॥ ३४४६ - ३४४८ ॥
६
ज्ञाता धर्मादयो वै ते केनचिद् वचनाद् ऋते । सत्यात्मनोपदिष्टत्वात् कनकादिविशुद्धिवत् ॥ ३४४९ ॥
७५९
१. ० सङ्गते :- पा०, गा० !
३- ३. पा०, गा० पुस्तकयोर्नास्ति । ५. सुरासुर०
पा०, गा० ।
२. तथातिभाव्य०- जै० ।
४. हेतुर्मन्तव्य:- पा०, गा० ।
६. सकलसुरासुर०- पा०, गा० ।