________________
७५८
तत्त्वसंग्रहे
तदाऽसिद्धोपलम्भत्वादर्थवित्तिर्न
सम्भवेत्॥ ३४३५॥ तस्मात् स्वसंवेदनात्मत्वं चेतसोऽस्ति प्रकाशनात् । अनारोपितरूपा च स्वसंवित्तिरियं स्थिता ॥ ३४३६ ॥
मुख्यं हि तावच्चित्तस्य स्वसंवेदनमेव रूपमिति अवश्यं सर्ववादिभिरभ्युपेयम्; अन्यथा यदि परेण ज्ञानान्तरेण बुध्यत इति स्यात्, तदाऽप्रसिद्धोपलम्भत्वेनार्थवित्तिर्न सिध्येत् । तस्मान्मुख्यं चेतस आत्मप्रकाशनमेव रूपम् । स चात्मा तस्यानित्यादिरूप इति सामर्थ्यात् तत्त्वदर्शनात्मकमेव चित्तं सिद्धमिति भावः ॥ ३४३५-३४३६॥
स्यादेतत्—भवतु तत्त्वदर्शनात्मकं चेतः, तथापि प्रहीणानामपि बलानां पुनरुत्पत्तिसम्भवात् सर्वेषामेव यथोक्तानां हेतूनामनैकान्तिकता दुर्निवार: ? इत्याशङ्कयाहमार्गे सात्म्यमतो याते चेतसोऽभिभवो' न हि ।
रागद्वेषादिभिर्दोषैस्ते हि प्रागेव दुर्बलाः ॥ ३४३७॥
[G.896] मार्गे सात्मीभावात् प्रागपि यदा रागादयो मला आगन्तुकतया दुर्बलत्वान्मार्गमभिभवितुमसमर्थाः, तथा सात्मीभावगते मार्गे कथं तमभिभविष्यन्ति ॥ ३४३७ ॥ सात्मीभावाच्च मार्गस्य सर्वापक्षालनाशिनः ।
इत्याह
न यत्नेन विना हानिर्यत्त्रो न गुणदर्शनात् ॥ ३४३८ ॥ अतो निर्मलनिष्कम्पगुणसन्दोहभूषणः ।
दोषवाताविकम्यात्मा सर्वज्ञोगम्यते जिनः ॥ ३४३९ ॥
किञ्च–सात्मीभावमुपगतस्य चेतोगुणस्य श्रोत्रियस्य जोदिङ्गनैर्धृण्यवन्न यत्नः सम्भ
वति । तस्मात् ? गुणदर्शनात् । एतच्च पूर्वमावेदितमेव । अपक्षालः-दोषः || ३४३८-३४३९ ॥ अथ वा-यदेव वस्तुत्वादि त्वया सर्वज्ञप्रतिषेधायोक्तम्, तदेव तत्साधने पर्याप्तमिति दर्शयितुं व्याप्तिं तावद् वस्तुत्वादेर्हेतोः साधयन्नाह -
किञ्च ये येऽति भाव्यन्ते ते ते भ्रान्तिपरिस्फुटम् । भावनापरिनिष्पत्तौ * कामादिविषया
इव ॥ ३४४० ॥ तत्रायं मौलः प्रयोगो वक्ष्यमाणः - ये वस्तुत्वज्ञेयत्वादिधर्मयोगिनस्ते सम्भवद्भावनाप्रकर्षपर्यन्तवर्त्येकज्ञानस्फुटप्रकाशनाः, तद्यथा - कामिनीपुत्रचोरादयः कामाद्युपप्लुतैर्भाव्यमानाः । सर्वधर्माश्च वस्तुत्वादिधर्मयोगिन इति स्वभावहेतुः । न चायमनैकान्तिकः । तथा हियद्यद् भूतमभूतं वा भाव्यते तत् सर्वं भावनापरिनिष्पत्तौ स्फुटप्रतिभासज्ञानफलं सिद्धम्, यथा कामुकदादेरङ्गनादयो विषयाः । सर्वे च धर्मा भाव्यन्ते दीर्घकालं सात्मीभूतकृपैस्तात्त्विकेन रूपेणेति स्वभावहेतुः । अनेन ' स्फुटप्रतिभासज्ञानफलत्वेन भावना व्याप्तेति दर्शितम् ॥ अर्थान्तरानपेक्षितत्वात् स्फुटप्रतिभासस्य तात्त्विकत्वमेव शून्यादिरूपस्य कथं सिद्धम् ?
सर्वधर्माच
भाव्यन्ते दीर्घकालमनेकधा ।
९. वेतस्याभि० पा०: तैस्तस्यापि - गा । २- २. मार्गसात्मी० - गा० 1. ३-३. ये विभाव्यन्ते- गा० । आन्ति परि- गाः। ५. भावनानिष्पत्तौ— पार, गा० । ६. स्फुटप्रतिभासेन ज्ञानफलेन - पा०, गा० ।