SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४०८ तत्त्वसंग्रहे सेति प्रमाणता। यत् प्रमेयाधिगतिरूपम्, न भवति न तत् प्रमाणम्, यथा घटादि, प्रमेयाधिगतिशून्यश्चाभाव इति व्यापकानुपलब्धिः ॥ १६७८॥ स्यादेतत्- चक्षुरादयो न प्रमेयाधिगतिरूपाः, अथ च प्रमेयाधिगतिहेतुत्वात् प्रमाणमुच्यन्ते, तद्वदभावोऽपीत्यनैकान्तिको हेतुरित्याह तद्धेतुत्वात् प्रमाणं चेच्चक्षुरादिवदुच्यते। न नीरूपस्य हेतुत्वसम्भवोऽस्ति कदाचन ॥१६७९ ॥ ज्ञानरूपविविक्तश्च सोऽभावो गम्यते कथम्। तद्गोचरप्रमाभावादेवं न त्वनवस्थितिः॥१६८०॥ [G.479] न च प्रमाणहेतुत्वादुपचारेण कल्पना युक्ता; यतो नीरूपस्य सर्वसामर्थ्यविरहलक्षणत्वान्न हेतुत्वसम्भवो युक्तः। सम्भवे वा नीरूपताहानिप्रसङ्गात्। तस्याविशेषात् तद्भाविज्ञानानुपरमप्रसङ्गाच्च। किञ्च-रेन ह्यसिद्धस्य गमकत्वं युक्तम्; अतिप्रसङ्गादिति पूर्वमुक्तम्। सा च तस्याभावस्य सिद्धिः कथमिति वक्तव्यम्, न तावत् स्वत एवं तस्य सिद्धिः; प्रमेयाभावस्यापि स्वत एव सिद्धिप्रसङ्गात्। ततश्चाभावकल्पना व्यर्था स्यात्; प्रमेयाभावसिद्ध्यर्थत्वात् तस्याः, तस्य च प्रमेयाभावस्य प्रमाणाभाववत् स्वत एव सिद्धत्वात्। नापि स्वसंवित्त्या तस्य सिद्धिः; यतो ज्ञानरूपविविक्तोऽसौ कथं स्वसंवित्त्या गम्येत, ज्ञामात्मन एव तयाधिगमात्। अथान्यस्मात् तद्विषयप्रमाणाभावात् तत्सिद्धिः, तस्यापि तद्विषयस्य प्रमाणाभावस्य कथं सिद्धिः?, तस्याप्यन्यतः सिद्धावनवस्था स्यात्। यथोक्तम् "अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः। उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ॥" (प्र० वा० ४.२. ७५) इति ॥ वस्त्वभावात् प्रमाणस्य प्रमाभावाच्च वस्तुनः। नास्तिता यदि गम्येत भवेदन्योन्यसंश्रयः॥१६८१॥ अथ मा भूदनवस्थितिः, प्रमेयाभावात् तस्य सिद्धिरभ्युपगम्यते। एवं सतीतरेतराश्रयत्वं प्राप्नोति। तथा हि- वस्तुनः प्रमेयस्याभावात् प्रमाणाभावसिद्धिः । ननु तु" सिद्धौ च प्रमेयाभावसिद्धिरिति स्फुटतरमेवात्रावतरतीतरेतराश्रयदोषः । तदयं गडुप्रवेशेऽक्षताराविनिर्गमः ॥ १६८१॥ ___ तस्मादेकस्य या दृष्टिः सैवान्यादृष्टिरुच्यते। तस्मादेकोपलब्धिरेवान्यस्यानुपलब्धिरिति नाभावो नाम पृथक्प्रमाणम्; प्रत्यक्षात्। स्यादेतत्- साऽप्येकोपलब्धिः कथं सिद्धा, तत्राप्यभाववत् समानप्रसङ्गः? इत्याह सा च स्वतन्त्रसंसिद्धा स्वरूपेणाजडत्वतः॥१६८२॥ सा चैकस्य दृष्टिः स्वयमेव स्वतन्त्रा सिद्धा, नान्यत इति नानवस्थाप्रसृङ्गः । कस्मात् ' स्वरूपेण-प्रकृत्यैव, अजडरूपत्वात्=प्रकाशस्वभावत्वात्। न च सत्तामात्रेण संवित्तावतिप्रसङ्गः; अन्येषामतद्रूपत्वात्॥ १६८२॥ १-१. न तहनिः-पा०, गा० । २. तद्भावे विज्ञाना०-पा०, गा०। ३-३. नासिद्धस्य-पा०, गा०। ४-४. तस्य-पा०, गा। ५-५. स्वतन्त्रसंसिद्धि:-पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy