________________
४०७
प्रमाणान्तरभावपरीक्षा अर्थक्रियासमर्थ च सदसदन्यदुच्यते ।
समावेशो नं चैकत्र तयोर्युक्तो विरोधतः॥१६७४॥ .. यदर्थक्रियाकारि तत्सत्, यथा सत्त्वेनाभिमतं रूपम्। अर्थक्रियाकारि चासत्त्वेनाभिमतं रूपमिति स्वभावहेतुः । यौ च परस्परविरुद्धौ न तयोरेकस्मिन् वस्तुनि युगपदुपलयनम्, यथा छायातपयोः शीतोष्णयोर्वा, परस्परविरुद्धे च सदसद्रूपे- इति [G.478] व्यापकविरुद्धोपलब्धिः ॥ १६७४॥
स्वसाध्यायां समर्थं चेदन्यस्यामक्षमम्, स्वसाध्यायमित्यादिना परो हेतोरसिद्धमुद्भावयति। तथा हि-तदेवैकं वस्तु स्वसाध्यायामर्थक्रियायां समर्थम्, अन्यसाध्यायां त्वसमर्थम्; ततश्चार्थक्रियाकारित्वलक्षणो हेतुरसिद्धः । न हि परसाध्यामर्थक्रियामपेक्ष्यार्थक्रियाकारित्वं वस्तुनः सिद्धम्। न च सदसद्रूपयोः परस्परविरोधः; अपेक्षाभेदात्। तथा हि-स्वसाध्यामर्थक्रियामपेक्ष्य सदुच्यते, अन्यसाध्यां त्वपेक्ष्यासदिति, यदि तु स्वसाध्यामेवापेक्ष्यासदुच्येत, स्यात् परस्परविरोधः ।अत्र परिहारमाह
_ . . ननु। तदेतद्धि द्विरूपत्वं नैवैकत्रास्ति वस्तुनि॥१६७५॥ यदेव स्वसाध्यायां समर्थं वस्तुस्वरूपं तदेव परसाध्यायामसमर्थम्, नान्यत्। न ह्यपेक्षाभेदेन शब्दभेदाद् वस्तु भिद्यते, निरंशत्वात् तस्य। तदिति। तस्मादर्थे तत् तस्मात् नैकत्र द्विरूपत्वमस्ति ॥ १६७५ ॥ . .
अथान्यदेव रूपमन्यसाध्यायामर्थक्रियायामसमर्थम्, न तु तदेव? इत्याह- अन्यदेवासमर्थं तु यद्यन्यस्यामितीष्यते।
द्वे तदा वस्तुनी प्राप्ते तत्रैकस्य द्विरूपता॥१६७६ ॥ एवं तर्हि यदर्थक्रियासमर्थं तदेकं वस्तु, यच्चासमर्थं तद् द्वितीयमिति वस्तुद्वयमेव केवलं भवता प्रतिपादितम्, न त्वेकस्योभयात्मत्वम्॥ १६७६॥ . प्रमाणनिवृत्तिमात्रात्मके तृतीयेऽभावलक्षणे दूषणमाह
__ अभावस्य च वस्तुत्वे पूर्वमङ्गीकृते सति। . नीरूपता पुनस्तस्य किमर्थमुपवर्ण्यते॥१६७७॥
पूर्वमङ्गीकृत इति। "साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" (तत्त्व० १६४८) इति वचनात्। नीरूपता पुनस्तस्येति । “मानमप्येवमिष्यताम्" (तत्त्व० १६५६) इति वचनाद् विषयाधिगमलक्षणत्वात् प्रमाणस्य न युक्तं नीरूपस्य प्रामाण्यमिति वक्ष्यमाणोऽभिप्रायः॥ १६७७॥ तमेवाभिप्रायं दर्शयन्नाह
नीरूपस्य हि विज्ञानरूपहानौ प्रमाणता।
न युज्यते प्रमेयस्य सा हि संवित्तिलक्षणा॥१६७८॥ १. सदन्यदसदुच्यते-पा०, गा०।
२. अनर्थक्रिया-गा। ३. तदेव हि-इत्यपि पाठः क्वचित् ।