________________
शब्दार्थपरीक्षा
२६३ स्फुटोऽपोहान्तरेऽश्वादावपोहान्तरस्य गवादेरपोहो भवन् सामान्यभूतस्यैवेति निश्चीयते । अतः सिद्धम्-अपोह्यत्वाद् वस्तुत्वं सामान्यस्येति ॥ ९५५ ॥
____ अपि च-अपोहानां परस्परतो वैलक्षण्यं वा द्वे? अवैलक्षण्यं वा? तत्राद्ये पक्षे तावद्दोषमाह
अभावस्य च योऽभावः स चेत् तस्माद्विलक्षणः।
भाव एव भवेनो चेद् गौरगौस्ते प्रसज्यते ॥९५६॥ अभावस्य-अगोशब्दाभिधेयस्य अभावो यो गोशब्दाभिधेयोऽर्थः । स चेत् तस्मात् पूर्वोक्तादभावाद्विलक्षणोऽन्य इत्यर्थः । तदानीं भाव एव भवेत्; अभावनिवृत्तिमात्ररूपत्वाद् भावस्य। नो चेद्विलक्षणः, तदा गौरप्यगोर्भवतः प्रसंज्यते; तदवैलक्षण्येन तादात्म्यप्रतिपत्तेः ॥ ९५६ ॥
स्यादेतद्-गवाश्वादिशब्दैः स्वलक्षणान्येव परस्परतो व्यावृत्तान्यपोह्यन्ते, नाभावाः, तेनाऽपोह्यत्वेन तेषां वस्तुत्वप्रसङ्गापादानं नानिष्टम्? इत्यत आह
यद्यप्यन्येषु शब्देषु वस्तुनः स्यादपोह्यता। . सच्छब्दस्य त्वभावाख्यानापोडं भिन्नमिष्यते ॥ ९५७॥ [G.305) यद्यपि सच्छब्दादन्येषु वस्तुनः पर्वतादेरपोह्यता सिध्यति, सच्छब्दस्य त्वभावाख्यादपोह्यान्नान्यदपोह्यमस्ति, अभाव एवापोह्य इत्यर्थः; असद्व्यवहारव्यवच्छेदेन सच्छब्दस्य प्रवृत्तत्वात्॥ ९५७॥
ततश्च को दोषः ? इत्याह-.. .तत्रासतोऽपि भावत्वमिति क्लेशो महान् भवेत्।
तदसिद्धौ न सत्ताऽस्ति न वा सत्ता प्रसिध्यति ॥९५८॥ पूर्ववदभावाभाववर्जनादसतोऽपोहे वस्तुत्वमेव स्यात्, ततश्चापोहवादिनोऽभ्युपगमादिविरुद्धमसतोऽपि वस्तुत्वं प्रसक्तमिति महबत कष्टमापतितम्। अस्त्वभावस्यापि वस्तुत्वमिति चेत्? आह-तदसिद्धाक्त्यिादि । तस्याभावस्यासिद्धौ सत्यां न सत्ता कस्यचिद्भावस्य सिध्येत्; अभावव्यवच्छेदेन तस्य भवन्मतेन स्थितलक्षणत्वात्। तस्य चाभावस्यापोह्यत्वे सति वस्तुत्वप्रसङ्गेन स्वरूपासिद्धरसत्तापि न सिध्यति; तस्याः सत्ताव्यवच्छेदरूपत्वात्, सत्तायाश्च यथोक्तेन प्रकारेणायोगात्॥ ९५८॥
यत् पूर्वमुक्तम्-"अपोखैः स बहि:संस्थैर्भिद्येत" (तत्त्व० ९२८) इत्यादि, यच्चोक्तम्-“अवस्तुत्वादपोहानां नैव भेदः" (तत्त्व० ९२५) इत्यादि । तत्र केचिद् बौद्धाः परिहारमाहुः-"न खल्वपोह्यभेदाद्, अधारभेदाद्वाऽपोहानां भेदः, अपि त्वनादिकालप्रवृत्तविचित्रवितत्त्वार्थविकल्पवासनाभेदान्वयैस्तत्त्वतो निर्विषयैरपि भिन्नविषयालम्बिभिरिव प्रत्ययैर्भिन्नेष्वर्थेषु बाहयेषु भिन्ना इवात्मान इवास्वभावा अप्यपोहा: समारोप्यन्ते। ते च तथा तैः समारोपिता भिन्नाः सन्तश्च प्रतिभासन्ते, तेन वासनाभेदाढ़ेदः सद्रूपता चापोहानां भविष्यति" इति, अत्राह
न चापि वासनाभेदाद् भेदः सद्रूपताऽपि वा।