________________
२६२
तत्त्वसंग्रहे व्यावृत्तिं सतीमपि नावलम्बते, किं तर्हि ? वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् । य एवांशो वस्तुनः शाब्देन लैङ्गिकेन वा प्रत्ययेनावसीयते, स एव तस्य विषयः, नानवसीयमानः सन्नपि; न हि मालतीशब्दस्य गन्धादयो विद्यमानतया वाच्या व्यवस्थाप्यन्ते ॥ ९५१॥ न चाप्येतद्युक्तम्, यदन्यव्यावृत्ते वस्तुनि शब्दलिङ्गयोः प्रवृत्तिरित्येतद्दर्शयति
न चासाधारणं वस्तु बुद्धौ विपरिवर्त्तते।
न चापि निर्विकल्पत्वात् तस्य युक्ताधिगम्यता॥९५२॥ अन्यव्यावृत्तं हि वस्तु भवद् भवतां मतेन स्वलक्षणमसाधारणमेव भवेत्, न च तच्छब्दलिङ्गजायां बुद्धौ विपरिवर्त्तत इति भवतां मतम्; तस्य निर्विकल्पबुद्धिग्राह्यत्वात्, शब्दलिङ्गजबुद्धेश्च सामान्यलक्षणविषयत्वात् । अथापि स्वंलक्षणविषयत्वमस्या अभ्युपेयते', तदपि युक्त्या न सङ्गच्छत इति दर्शयन्नाह-न चापीत्यादि। न ह्यसाधारणं वस्तु शब्दलिङ्गजप्रत्ययाधिगम्यम्; तत्र सर्वविकल्पानां प्रत्यस्तमयात् । तथा हि-विकल्पो जात्यादिविशेषणसंस्पर्शेनैव प्रवर्त्तते, न च शुद्धवस्तुपरिग्रहेण ॥ ९५२ ॥ ... अथापि स्यात्-शब्देनागम्यमानमप्यसाधारणं वस्तुं व्यावृत्त्या विशिष्टमित्युच्यते? इत्याह
शब्देनागम्यमानं च विशेष्यमिति साहसम्।
तेन सामान्यमेष्टव्यं विषयो बुद्धिशब्दयोः ॥९५३॥ प्रकारान्तरेणापि सामान्यस्य वस्तुत्वं साध्यन्नाह
यदा चाशब्दवाच्यत्वान्न व्यक्तीनामपोहाता।
तदाऽपोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥९५४॥ [G.304] व्यक्तीममिति। असाधारणवस्तुरूपाणामवाच्यत्वान्नापोह्यता; अनुक्तस्य निराकर्तुमशक्यत्वात्। अपोह्येत सामान्यमिति। तस्य वाच्यत्वादिति भावः ॥ ९५४ ॥
स्यादेतद् । यदि नाम सामान्यमपोह्येत, तथापि कथं तस्य वस्तुत्वं सिध्यति? इत्यत आह
नापोह्यत्वमभावानामभावाभाववर्जनात् ।
व्यक्तोऽपोहान्तरोऽपोहस्तस्मात् सामान्यवस्तुनः ॥९५५॥ अभावानामिति अपोहानाम्। यदि भवेद्, वस्तुत्वमेव स्यात्। अत्रोपपत्तिमाहअभावाभाववर्जनदिति। अभावानामभावरूपत्यागादित्यर्थः । एतदुक्तं भवति-यद्यपोहानामपोह्यत्वं भवेत्, तदैषामभावरूपत्वं प्रतिषिद्धं भवेत्, तत्प्रतिषेधे च "सत्यभावैरभावरूपत्वं त्यक्तं स्यात् । ततश्चाभावानामपोहलक्षणानामभावरूपत्यागाद् वस्तुत्वमेव भवेदित्येके।
अन्ये त्वाहु:-अभावाभाववर्जनादिति। अभावानामभावाभावादित्यर्थः। न ह्यभावस्वभावा अपोहा अपोह्य युज्यन्ते । वस्तुविषयत्वात् प्रतिषेधस्येति यावत्। तस्माद्व्यक्तः १. अभ्युपगम्यते-पा०, गा०/
२. वाच्यत्वं न-पाठ, गा० . . ३. न्तरापोह०-पा०, गा०/ ४. भवत्यभावैल-पा०, गा० ।