________________
७०
श्राद्धविधिकौमुदीसक्षेपः यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् लोको भवतां पूजासत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाश्चैत्यप्रतिबद्धगृहक्षेत्रादिवृत्तिभोगिनस्ततस्तानभियोजयन्ति= निर्भर्त्सयन्ति, यथा एकं तावद्देवकुलानां वृत्तिमुपजीवथ, द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ, इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति, ततोऽदृश्यमानाः स्वयमेव स्फेटयन्त्यपनयन्तीति तवृत्तिः । एवमागमाच्च विनश्यच्चैत्याद्युपेक्षा संयतेनापि सर्वथा न कार्येत्यागतम् । अयं च चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतद्योगसम्भवात् । अनृद्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुक्च्चैत्यं याति नैषेधिकीत्रयादि-भावपूजानुयायिविधिना । स च पुष्पादिसामग्रंयभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्का कायेन यदि किञ्चित् पुष्पग्रथनादि कर्त्तव्यं स्यात्तत् करोति । ननु कथं सामायिकत्यागेनात्र द्रव्यस्तवस्यौचित्यम् ? उच्यते, सामायिकमस्य स्वायत्तत्वात् सकलकालमपि कर्त्तव्यं स्यात्, चैत्यकृत्यं तु समुदायायत्तत्वात्कादाचित्कं, प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः । यदागमः
जीवाण बोहिलाभो, सम्मट्ठिीण होइ पिअकरणं ।
आणा जिणंदभत्ती, तित्थस्स पभावणा चेव.॥ एवमनेके गुणास्तस्मात्तदेव कर्तव्यम् । उक्तञ्च दिनकृत्यसूत्रेऽपि
एवं विहि इमो सव्वो, रिद्धिमंतस्स देसिओ। . इअरो निअगेहम्मि, काउं सामाइयं वयं ॥ ... जइ न कस्सइ धारेइ, न विवाओ अ विज्जए। उवउत्तो सुसाहुव्व, गच्छए जिणमंदिरे ॥ काएण अत्थि जड़ किंचि कायव्वं जिणमंदिरे। तओ सामाइअं मोत्तुं, करे जं करणिज्जयं ॥.