________________
७१
प्रथमः प्रकाशः . ____ अत्र च सूत्रगांथोक्तविधिनेति पदेन दशत्रिकाभिगमपञ्चकादिचतुर्विंशतिमूलद्वारैश्चतुःसप्तत्यधिकद्विसहस्रीमितप्रतिद्वाररूपो भाष्याद्युक्तः सर्वोऽपि विधिरभ्यूह्यः यथा
तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चेव य पणामा । तिविहा पूआ य तहा, अवत्थतिअ भावणं चेव ॥ तिदिसि निरिक्खणविई, पयभूमिपमज्जणं च तिखुत्तो।
वन्नाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ॥ इत्यादि । विधिप्रधानमेव. च विधीयमानं सर्वं देवपूजावन्दनकादिधर्मानुष्ठानं महाफलमन्यथा त्वल्पफलम् सातिचारतया च जातु ततः प्रत्यपायादेरप्यापत्तिः । उक्तञ्च- . .
धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । - रौद्रदुःखौघजननो दुष्प्रयुक्तादिवौषधात् ॥
चैत्यवन्दनादेश्चाविधिना विधाने प्रायश्चित्तमप्युक्तमागमे । तथाच महानिशीथसप्तमाध्ययनसूत्रं-अविहीए चेइआई वंदिज्जा तस्स णं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई.वंदमाणो अन्नेसिं असद्धं जणेइ इइ काऊणं ।
देवताविद्यामन्त्रादयोऽपि विधिनैवाराद्धाः सिद्धिफलाः, अन्यथा तु अनर्थाद्यपि सद्यः कुर्युः । अत्र विध्यविध्योतिम् । न चाविधिकृतादकृतमेव वरंमिति प्रतिपक्षश्चिन्त्यः । यदुक्तं
अविहिकया वरमकयं असुअवयणं भणंति समयन्नू ।
पायच्छित्तं अंकए, गुरुअं वितहं कए लहुअं ॥ . तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधिविधौ यतनीयम् । इदमेव च श्रद्धालोर्लक्षणम् । आहुश्च
विहिसारं चिअ सेवइ, सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ, विचक्खवायं वहइ तम्मि ॥ १. आराध्याः सिद्धफलाः इति को० ह० प्र० पाठः ।