________________
प्रथमः प्रकाशः
सम्भवेन प्रेत्य प्रकृष्टं फलं स्पष्टम् । जिनजन्मस्नात्रकर्तृचतुःषष्टिनिर्जरेन्द्राधनुकारकरणादि चाऽत्रापि । इति स्नात्रविधिः । प्रतिमाश्च विविधा - स्तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तं
गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति । विहिकारिआइ अन्ने, पडिमा पूअणविहाणं ॥
६९
गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिद् अन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्याऽनुपयोगित्वान्ममत्वाऽऽग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः । सर्वत्र तीर्थकृदाकारोपलम्भेन तद्बुद्धेरुपजायमानत्वाद् अन्यथा हि स्वाग्रहवशादर्हद्द्द्बिम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद् दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिः आगमप्रामाण्यात् । तथा हि श्रीकल्पभाष्येनिस्सकडमनिस्सकडे अ चेइए सव्वहिं थुई तिन्नि । वेलं व चेइआणि अ नाउं इक्विक्विआ वावि ॥
निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति । भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या । चैत्ये तन्तुजालादौ विधिमाह -
'सीलेह मंखफ़लए, इअरे चोइंति तंतुमाईसु । अभिजोइंति सवित्तिसु अणिच्छफेडतदीसंता ॥
इतरेऽसंविग्ना देवकुलिका इत्यर्थः, ताँस्तन्तुजाललूतापुटकादिषु सत्सु ते साधवो नोदयन्ति यथा शीलयत परिकर्मयत, मङ्खफलकानीव मङ्खफलकानि, देवकुलानि, मो नाम चित्रफलकव्यग्रहस्तः तस्य च यदि फलकमुज्ज्वलं भवति ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि -