SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६६ श्राद्धविधिकौमुदीसक्षेपः कार्यः । सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् - अभिषेकतोयधारा धारेयं ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनत्तु भागवती ॥ ततोऽङ्गरूक्षणविलेपनादिपूजा प्राक्पूजातोऽधिका कार्या । सर्वप्रकारैर्धान्यपक्वान्नशाकविकृतिफलादिभिर्बलिढौकनम्; ज्ञानादिरत्नत्रयाढ्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्व श्रावकैर्वृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्यम् । जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्रा: स्नात्रादि कुर्वन्ति । स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोष: सम्भाव्यः । यदुक्तं हैमे श्रीवीरचरित्रे- . अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ श्रीपद्मचरितेऽप्येकोनत्रिंशे उद्देशे अषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाह्निकाचैत्यस्नात्रमहाधिकारे- , तं ण्हवणसंतिसलिलं, नरवइणा पेसिअं सभज्जाणं । तरुणविलयाहिं नेउं, छूढं चिअ उत्तमंगेसु ॥. कंचुइहत्थोवगयं, जाव य गंधोदयं चिरावेइ । तावय वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ इत्यादि सा कंचुइणा मुद्धा, अहिसित्ता तेण संतिसलिलेणं। निव्वविअमाणसग्गी, पसन्नहियआ तओ जाया ॥ बृहच्छान्तिस्तवेऽपि 'शान्तिपानीयं मस्तके दातव्य'मित्युक्तम् । श्रूयतेऽपि जरासङ्घमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्ध नागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्केश्वरपुरे आनाय्य तत्स्नपनाऽम्बुना पटूचक्रे । जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धमपतितं देवा
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy