________________
प्रथमः प्रकाशः .
६७
गृह्णन्ति, तदर्धार्द्ध नृपः, शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षड् मासांश्चान्यो न स्यादित्यागमेऽपि ।
ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः । सर्वैर्यथाशक्ति परिधापनिका च मोच्या। अथाऽऽरात्रिकं समङ्गलप्रदीपमर्हतः पुरस्तादुद्द्योत्यम् । आसन्नं च वह्निपात्रं स्थाप्यं, 'तत्र लवणं मृदं च पातयिष्यते ।
उवणेउ मंगलं वो, जिणाण मुहरालिजालसंवलिआ।
तित्थपवत्तणसमये, तिअसविमुक्का कुसुमवुट्ठी ॥ इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततः
उयह पडिभंगपसरं, पयाहिणं मुणिवई करेऊणं ।
पडइ सलोणत्तणलज्जिअं व लोणं हुअवहम्मि ॥ इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत उच्चैः सकलशजलधारं परित श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम्
मरगयमणिघडिअविसालथालमाणिक्कमण्डिअपईवं। - ण्हवणयरकरुक्खित्तं, भमउ जिणारत्तिअं तुम्ह ॥ . .
इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । यदुक्तं त्रिषष्ठीयाऽऽदिचरित्रे
कृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः ।। · पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ॥
ज्वलद्दीपत्विषा तेन चकासामास कौशिकः । - भास्वदौषधिचक्रेण शृङ्गेणेव महागिरिः ॥
१. लवणजलं च इति को० ह० प्र० पाठः । २. पश्यत । ३. इन्द्रः ।