SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः . स्थाप्यः ततः- . मुक्तालङ्कारविकारसारसौम्यत्वकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्रयं पातु जिनबिम्बम् ॥ इत्युक्त्वाऽलङ्कारोत्तारणम् । अवणिअ कुसुमाहरणं पयइपइट्ठिअमणोहरच्छायं । जिणरूवं मज्जणपीठसंठिअं वो सिवं दिसउ ॥ इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशढालनं पूजा च । अथ धौतधूपितकलशेषु स्नात्रार्हसुगन्धजलक्षेपः, श्रेण्या तेषां व्यवस्थापन सद्वस्त्रेणाच्छादनं च । ततः स्वचन्दनधूपादिना कृततिलकहस्तकङ्कणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावंकाः कुसुमाञ्जलिपाठान् पठन्ति । तत्र सयवत्तकुंदमालइ, बहुविहकुसुमाई. पंचवन्नाई। जिणनाहण्हवणंकाले दिति सुरा कुसुमंजली हिट्ठा ॥ इत्युक्त्वा देवस्य मस्तके पुष्पारोपणम् । गंधायाविअमहुअरमणहरझंकारसद्दसंगीआ। जिणचलणोवरि मुक्का हरउ तुम्ह कुसुमंजली दुरिअं॥ .. इत्यादिपाठैः प्रतिगाथादिपाठं जिनचरणोपरि एकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाऽधिकृतजिनजन्माभिषेककलशपाठः । ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि, स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् । यदाहुदिवेताल-श्रीशान्तिसूरयः आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ॥ स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बरः सर्वशक्त्या
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy