________________
६४
श्राद्धविधिकौमुदीसङ्क्षेपः
पञ्चामृतं तथा शान्तौ दीपः स्यात्सघृतैर्गुडैः । वह्नौ लवणनिक्षेप: शान्त्यै 'तुष्टयै प्रशस्यते ॥ aush सन्धि छिन्ने रक्ते रौद्रे च वाससि । दानपूजातपोहोमसन्ध्यादि निष्फलं भवेत् ॥
पद्मासनसमासीनो नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं पूजां कुर्याज्जिनेशितुः ॥
स्नात्रं- विलेपन-विभूषण - पुष्पवास - धूप- प्रदीप-फल- तन्दुल- पत्र - पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्र - वादित्र - गीत - नटन - स्तुति - कोशवृद्धयां ॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद् यद्यत्प्रियं तदिह भाववशेन योज्यम् ॥ इति पूजाप्रकरणमुमास्वातिवाचककृतमिति प्रसिद्धि: 1 तथा'ऐशान्यां देवतागृहम्' इति विवेकविलासे । तथा
न वैषम्ये न पादस्थे न चैवोत्कटिकासने । नैवोर्ध्वे वामपदे न न पूजा वामहस्ततः ॥ न शुष्कैः पूजयेद्देवं कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टैर्नाशुभैर्नाऽविकासिभिः ॥ कीटकोशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन वासितं यदशोभनम् ॥
पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥
सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्वं भगवतः स्नात्रं विधेयम् । तत्रायं विधिः-प्रातः पूर्वं निर्माल्योत्सारणं, प्रक्षालनं, सङ्क्षेपपूजा, आरात्रिकं, मङ्गलप्रदीपश्च । ततः स्नात्रादिसविस्तरद्वितीयपूजाप्रारम्भे देवस्य पुरः सकुङ्कुमजलकलश:
१. पुष्ट्यै इति को० ह० प्र० पाठः ।