________________
प्रथमः प्रकाशः .
पूजकः स्याद्यथा पूर्व उत्तरस्याश्च सम्मुखः । दक्षिणस्या दिशो वर्जं विदिग्वर्जनमेव हि ॥ पश्चिमाभिमुखः कुर्यात् पूजां जैनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो दक्षिणस्यामसन्ततिः ॥ . आग्नेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां सन्तति व नैर्ऋत्यां च कुलक्षयः ॥ ऐशान्यां कुर्वतां पूजां संस्थिति व जायते । अध्रि-जानु-करांसेषु-मूनि पूजा यथाक्रमम् ॥ श्रीचन्दनं विना नैव पूजा कार्या कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥ नवभिस्तिलकैः पूजा करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ मध्याह्ने कुसुमैः पूजा सन्ध्यायां धूपदीपकात् । वामांशे धूपदाहः स्याज्जल पात्रं तु सम्मुखम् ॥ अर्हतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे चैत्यानां वन्दनं तथा ॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयो ।' र्यन्मूर्धोर्ध्वगतं धृतं कुवसनै भेरधो यद् धृतम्। . . स्पृष्टं दुष्टजनैर्घनैरभिहतं यहूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ (शा० वि०) नैकपुष्पं द्विधा कुर्यान्न च्छिन्द्यात्कलिकामपि । चम्पकोत्पलभेदेन भवेद्दोषो विशेषतः ॥ गन्धधूपाक्षतैः स्रग्भिः प्रदीपैर्बलिवारिभिः ।। प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः ॥ शान्तौ श्वेतं तथा पीतं लाभे श्याम पराजये । मङ्गलार्थ तथा रक्तं पञ्चवर्णं च सिद्धये ॥
१. 'अग्रपूजा' इत्यपि पाठः, 'अग्रपूरं' इत्यपि को० ह० प्र० पाठः ।