SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२ श्राद्धविधिकौमुदीसक्षेपः त्रिकम् । तथा-पूअंपि पुप्फामिसथुइपडिवत्तिभेअओ चउविहंपि जहासत्तीए कुज्जा । ललितविस्तरादौ तु पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमित्युक्तम् । तत्रामिषं प्रधानमशनादि भोग्य वस्तु । यद् गौड:- उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि । . .. प्रतिपत्तिः पुनरविकलाऽऽप्तोपदेशपरिपालना । इत्यागमोक्तं पूजाभेदचतुष्टयम् । तथा. दुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वम्मि । दव्वेहि जिणपूआ, जिणआणापालणं भावे ॥ इत्याद्युक्तं द्रव्यभावादिलक्षणं पूजाभेदद्वयादि । तथा-पुप्फारुहणं गंधारुहणं इत्यादयः सप्तदश, स्नात्रविलेपनादयश्चैकविंशतिः पूजाभेदा अङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । सप्तदशपूजाभेदांश्चैवमूचुः ण्हवणविलेवणअंगम्मि चक्खुजुअलं च वासपूआए। .. पुष्फारुहणं मालारुहणं तह वन्नयारुहणं ॥ चुन्नारुहणं जिणपुंगवाण आहरणारोहणं चेव । पुप्फगिह पुष्फपगरो, आरत्तिमंगलपईवो ॥ दीवो धूवुक्खेवं, नेवेज्जं सुहफलाण ढोअणयं । गेअं नट्टं वज्जं पूजाभेआ इमे सत्तर ॥ एकविंशतिभेदपूजादिविधिश्चैवमुक्त: स्नानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । . उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥ . . गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात् सार्द्धहस्तोव॑भूमिके ॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचर्नीचैस्ततो वंशः सन्तत्याऽपि सदा भवेत्॥ .
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy