________________
६१
प्रथमः प्रकाशः
पभावई ण्हाया कयकोउअमंगला सुकिल्लवासपरिहिआ जाव अट्ठमिचउद्दसीसु अ भत्तिराएण.सयमेव राओ नट्टोवयारं करेइ, रायावि तयाणुवित्तिए मुरयं वाएइ त्ति ।
पूजाकरणादौ चाहतश्छद्मस्थकेवलिसिद्धावस्थात्रयं भावयेत् । यद्भाष्यं
ण्हवणच्चगेहिं छउमस्थवत्थपडिहारगेहिं केवलिअं। - पलिअंकुस्सग्गेहि अ, जिणस्स भाविज्ज सिद्धतं ॥ ..
स्नापकैः परिकरोपरिघटित-गजारूढकरकलित-कलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा जन्मावस्था राज्यावस्था श्रामण्यावस्था च, तत्र स्नपनकारैर्जन्मावस्था, मालाधारै राज्यावस्था, श्रामण्यावस्था तु भगवतोऽपगते केशशीर्षमुखदर्शनात् सुज्ञातैव । प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केलिः, मालाधारैः पुष्पवृष्टिः, वीणावंशकरैः प्रतिमोभयपार्श्ववर्त्तिभिर्दिव्यो ध्वनिः शेषाणि स्फुटान्येव । इति भावपूजा । . .
पंचोवयारजुत्ता, पूआ अट्टोवयारकलिआ य । रिद्धिविसेसेण पुणो, नेआ सव्वोवयारावि ॥ तहिअं पंचुवयारा, कुसुमक्खयगंधधूवदीवेहिं । (नेविज्ज जल फलेहिं जुत्ता अठ्ठोवयारावि) . कुसुम-क्खय-गंध-पईव-धुव-नेवज्ज-फल-जलेहिं पुणो।
अट्ठविहकम्महणणी, अट्टवयारा हवइ पूआ ॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं ।
फलबलिदीवाईनट्टगीअआरत्तिआइहि ॥ : इति बृहद्भाष्याद्युक्तं पूजाभेदत्रयम् । तथा
. सयमाणयणे पढमा, बीआ आणावणेण अन्नेहिं । ... तइआ मणसा संपाडणेण वरपुप्फमाईणं ॥ इति कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजा