________________
५८
श्राद्धविधिकौमुदीसक्षेपः क्षैरेयीक्षिप्रचटकाद्यन्नमेवोत्तारणादौ याचन्ते । तथा दिक्पालादीनां बलिः तीर्थकृद्देशनानन्तरं बलिश्चान्नेनैव क्रियते । निःस्वो हली साधूक्त्याऽऽसन्नचैत्ये नित्यं नैवेद्यं ददानोऽन्यदा उत्सूरे सिंहरूपभिक्षुत्रयदर्शनपरीक्षातुष्टयक्षगिरा सप्तमेऽह्नि स्वयंवरे कन्यां नृपजयं राज्यं च लेभे । लोकेऽप्युक्तं
धूपो दहति पापानि दीपो मृत्युविनाशनः ।
नैवेद्ये विपुलं राज्यं सिद्धिदात्री प्रदक्षिणा ॥ अन्नादिसर्ववस्तुनिष्पत्तिहेतुत्वादिना जलमन्नादेरप्यतिशायीति तढौकनमपि कार्यम् । नैवेद्यारात्रिकाद्यागमेऽप्युक्तं । यदावश्यकनिर्युक्तौकीड़ बलित्ति । निशीथेऽपि-तओ पभावईए देवीए सव्वं बलिमाइ.काउं भणिअं देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरउ त्ति वाहिओ कुहाडो, दुहा जायं पिच्छड़ सव्वालंकारविभूसि भयवओ पडिमं । निशीथपीठेऽपि "बलित्ति असिवोवसमनिमित्तं कूरो किज्जइ ।" निशीथचूर्णौ च-सम्प्रतिराजा रहग्गओ विविहफले खज्जगभुज्जगे अ कवडगवत्थमाई उक्किरणे करे । कल्पेऽपि
साहम्मिओ न 'सत्था, तस्स कयं तेण कप्पड़ जईणं ।
जं पुण पडिमाण कए, तस्स कहा का अजीवत्ता ॥ प्रतिष्ठाप्राभृतात् श्रीपादलिप्तोध्धृतप्रतिष्ठापद्धतौ च यथाभणितमागमे
आरत्तिअमवयारण, मंगलदीवं च निम्मिउं पच्छा।
चउनारीहिं वि निम्मत्थणं च विहिणाउ कायव्वं ॥ ... महानिशीथेऽपि तृतीयाध्ययने-अरिहंताणं भगवंताणं गंधमल्लपईवसम्मज्जणोवलेवणविचित्तबलिवत्थधूवाइएहिं पूआसक्कारेहिं पइदिणमब्भच्चणं पकुव्वाणा तित्थुच्चणं करेमो त्ति । इत्यग्रपूजा ।
१. शास्ता तीर्थकरः ।