________________
प्रथमः प्रकाशः
भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्व जिनाद् दक्षिणदिशि पुंसः स्त्रियास्तु वामदिशि, आशातना - परिहारार्थं जघन्यतोऽपि सम्भवे नवहस्तमानात्, गृहचैत्यादौ तु हस्तहस्तार्द्धमानात्, उत्कृष्टतस्तु षष्ठिहस्तमानादवग्रहाद् बहिः स्थित्या चैत्यवन्दना विशिष्य स्तुत्यादिभिः स्यात् । आह च
तइआओ भावपूआ, ठाउं चिइवंदणोचिए देसे । . जहसत्ति चित्तथुइथुत्तमाइणा देववंदणयं ॥
निशीथेऽपि -सो उ. गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोर निवसिओ । तथा वसुदेवंहिण्डौ - वसुदेवो पच्चूसे कयसमत्तसावयसामाइआइनियमो गहिअपच्चक्खाणो कयका सग्गथुइवंदणो त्ति । एवमनेकत्र श्राविका - दिभिरपि कायोत्सर्गस्तुत्याद्यैश्चैत्यवन्दना कृतेत्युक्तम् । चैत्यवन्दना च जघन्यादिभेदात् त्रेधा । यद्भाष्यं
नमुकारेण जहन्ना चिइवंदणमज्झदंडथुइजुअला । पणदंडथुइचक्कगथयपणिहाणेहिं उक्कोसा ॥
५९
नमस्कारेण= अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण यद्वा 'नमो अरिहंताणं" इत्यादिना, अथवैकेन श्लोकादिरूपेण, नमस्कारेणेति • जातिनिर्देशाद् बहुभिरपि नमस्कारैः यद्वा प्रणिपाताऽपरनामतया प्रणिपातदण्डकाख्यशक्रस्तवेनैकेन १। मध्या = मध्यमा दण्डः चैत्यस्तवदण्डः “अरिहंतचेइआणं” इत्यादि स्तुतिः प्रतीता - या तदन्ते दीयते ते एव `युगलं यस्यां सा २। पञ्चदण्डाः शक्रस्तव - चैत्यस्तव-नामस्तव - श्रुतस्तवसिद्धस्तवाख्याः प्रणिधानं जयवीअराय इत्यादि ३
अन्ने बिंति इगेणं, सक्कत्थएणं जहन्नवंदणया । तद्दुगतिगेण मज्झा, उक्कोसा चउहिं पंचहिं वा ॥ इरियाए पुव्वं वा, पणिहाणं चेव सक्कत्थयभणणे । दुगुणचिइवंदणं ते चहुंति सक्कत्थया तिन्नि ॥