________________
प्रथमः प्रकाशः
ता नज्जइ नो दोसो करणे चउवीसवट्टयाईणं ।
आयरणाजुत्तीओ, गंथेसु अ दिस्समाण त्ति ॥ बृहद्भाष्येऽप्युक्तं
जिणरिद्धिदंसणत्थं, एगं कारेड़ कोइ भत्तिजुओ। पायडिअपाडिहरं, देवागमसोहिअं चेव ॥ दसणनाणचरित्ताराहणकज्जे जिणत्ति कोइ। परमिट्टिनमोक्कार, उज्जमिउं कोइ पंच जिणे ॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाउ, कोई कारंति चउव्वीसं ॥
उक्कोस सत्तरिसयं, नरलोए विहइत्ति भत्तीए। ... - सत्तरिसयंपि कोई, बिंबाणं का धणढो ॥ ..
तस्मात् त्रितीर्थीपञ्चतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । इत्यङ्गपूजा ।
रौप्यसौवर्णशालिसिद्धार्थाद्यक्षतैरष्टमङ्गलालेखनम् । यथा श्रेणिकनृपस्य प्रत्यहमष्टोत्तरशतसौवर्णयवैः । अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतढौकनं, तथा विविधानां कूराद्यशन-शर्करागुडादिपान-पक्वान्नफलादिखाद्य-ताम्बूलादिस्वाद्यानां ढौकनं, गोशीर्षचन्दनरसेन पञ्चाङ्गलितलैर्मण्डलालेखनादि पुष्पप्रकराऽऽरात्रिकादि च सर्वमग्रपूजायामन्तर्भवति । यद् भाष्यं
. गंधव्वनट्टवाइअलवणजलारत्तिआइ दीवाई । .. 'जं किच्चं तं सव्वंपि ओअड़ अग्गपूआए ॥
नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य विशिष्य च राद्धस्य जगज्जीवनतया सर्वोत्कृष्टरत्नत्वात्, तत एव वनवासगतश्रीरामेण महाजनोऽन्नस्य कुशलं पृष्टः । कलहनिवृत्तिप्रीत्याद्यपि मिथोऽन्नभोजनेनैव सुदृढम् । देवा अपि नैवेद्येन प्रायः प्रीयन्ते । श्रूयते ह्यग्निवेताल: शतमूढकनैवेद्यादिना विक्रमादित्यस्य वशीभूतः । भूतप्रेतादयोऽपि