________________
श्राद्धविधिकौमुदीसक्षेपः अन्यत्रापि,
कायकण्डूयणं वज्जे, तहा खेलविगिचणं । .. थुइथुत्तभणणं चेव, पूअंतो जगबंधुणो ॥ अत्र जिनहाक दृष्टान्तः
देवपूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्यम्, तदंशक्तौ पापहेतुर्वचः सर्वथा त्याज्यम्, नैषेधिकीकरणे गृहादिव्यापारनिषेधात्, तत एवं पापहेतुः सञ्ज्ञाऽपि वा, अनौचित्यादिप्रसङ्गादपि । . ___ मूलबिम्बसविस्तरपूजानन्तरं च सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या । द्वारबिम्बसमवसरणबिम्बपूजाऽपि मुख्यबिम्ब-पूजाद्यनन्तरं गर्भगृहान्निर्गमनसमये कर्त्तव्या सम्भाव्यते न तु प्रवेशे, पूर्वं मूलबिम्बस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिम्बादेः पूर्वं पूजने बृहच्चैत्यप्रवेशेऽनेकबिम्बानामासन्नीभवनेन पूर्वं पूजाप्रसङ्गः । तथा चाल्पपुष्पादि-समाप्तौ 'मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुञ्जयरैवतादितीर्थे प्रवेशमार्गासन्नान्यान्यचैत्यार्चापूजने मुख्यचैत्यगमनमपि प्रान्ते प्रसज्यते । न चैवं युज्यते, उपाश्रयप्रवेशे आसन्नसाधूनामपि गुरुवन्दनात्पूर्वं वन्दनप्रसङ्गात् । प्रणाममात्रं तु आसन्नार्चादीनां पूर्वमपि युक्तम्। तृतीयोपाङ्गविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिम्बपूजा पश्चादुक्ता । यथा- :
तो गंतुं सुहम्मसहं, जिण सकहा दंसणंमि पणमित्ता। उग्घाडित्तु समुग्गे, पमज्जए लोमहत्थेणं ॥ सुरहिजलेणिगवीसं, वारा पक्रालिआणुलिपित्ता। गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥ तो दारपडिमपूअं, सहासु पंचसुवि कड पुव्वं व।। दारच्चणाइ सेसं, तइअउवंगाउ नायव्वं ॥
१. मूलनायकस्येत्यर्थः ।