________________
प्रथमः प्रकाशः . क्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेनिर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात् ? तस्माद्भोगविनष्टस्यैव निर्माल्यत्वं युक्तियुक्तं प्रतिभाति । "भोगविणटुं दव्वं निम्मलं बिति गीअत्था" इत्यागमोक्तेरपि, तत्त्वं तु केवलिगम्यम् ।
चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकताऽतिरेकश्च स्यात्, तथैव द्रष्ट्रणां प्रमोदपुण्यवृद्ध्यादिसम्भवात् । अङ्गाग्रभावैश्च त्रिधा पूजा । तत्र निर्माल्यापनयनं, प्रमार्जनाङ्गप्रक्षालनं, वालककूञ्चिकाव्यापारणं, पूजनं, कुसुमाञ्जलिमोचनं, पञ्चामृतस्नात्रं, शुद्धोदकधाराप्रदानं, धूपितस्वच्छमृदुगन्धकाषायिकादिवस्त्रेणाङ्गरूक्षणं, कर्पूरकुङ्कुमादिमिश्रगोशीर्षचन्दनविलेपनाऽऽङ्गीविधानादि, तथा गोरोचनमृगमदादिभिस्तिलकपत्रभङ्ग्यादिकरणम्, निस्सपत्नरत्नसौवर्णमुक्ताभरणरौप्यसुवर्णपुष्पादिभिरलङ्करणं । एवं . चान्येषामपि भाववृद्ध्यादि । यतः
. पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो ।
न य अन्नो उवओगो, एएसि सयाण लट्ठयरो ॥ तथा परिधापनिका चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैः परिधापनं, ग्रन्थिम-वेष्टिम-पूरिम-सङ्घातिमरूपचतुर्विधप्रधाना-म्लान-विध्यानीतशतपत्र-सहस्रपत्र-जाती-केतक-चम्पकादिविशेषपुष्पैर्माला-मुकुटशिरस्क-पुष्पगृहादिविरचनम् । जिनहस्ते सौवर्ण-बीजपूर-नालिकेरपूगीफलनागवल्लीदल-नाणकमुद्रिकामोदकादिमोचनम् । धूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि सर्वमङ्गपूजायां भवति । तथोक्तं बृहद्भाष्ये -
ण्हवण-विलेवण-आहरण-वत्थफल-गंध-धूवपुप्फेहि। कीड जिणंगपूआ, तत्थ विही एस नायव्वो ॥ 'वत्थेण बंधिऊणं, नासं अहवा जहा समाहीए। .. वज्जेअव्वं तु तया देहम्मिवि कण्डुअणमाई ॥