________________
५२
श्राद्धविधिकौमुदीसक्षेपः श्रीजिनप्रभसूरिकृतपूजाविधौ तु-सरससुरहिचंदणेण देवस्स दाहिणजाणुदाहिणखंधनिडालवामक्खंधवामजाणुलक्खणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं काऊण पच्चग्गकुसुमेहिं गन्धवासेहिं च पूएइ इत्युक्तम् । यदि च प्राक् केनापि पूजा कृता स्यात्तदा विशिष्टाऽन्यपूजासामग्रयभावे तां नोत्सारयेत्, भव्यानां तदर्शनजन्य पुण्यबन्धस्याऽन्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेत् । यद् बृहद्भाष्यं
अह पुव्वं चिय केणइ, हविज्ज पूआ कया सुविहवेण । . . तंपि सविसेससोहं जह होइ तहा तहा कुज्जा ॥ .. निम्मल्लंपि न एवं, भन्नइ निम्मल्ललक्खणाभांवा ।.. भोगविणटुं दव्वं, निम्मल्लं बिंति गीयत्था ॥ इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा। वत्थाहरणाईणं, जुगलिअंकुडलिअमाईणं ॥ कहमन्नह एगाए, कासाईए जिणिदपडिमाणं।
अट्ठसयं 'लूहंणेण, विजयाई वण्णिआ समए ॥ यद् जिनबिम्बारोपितं सद् विच्छायीभूतं विगन्धं जातं, दृश्यमानं च निःश्रीकं, न भव्यजनमन:प्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुता इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृते विचारसारप्रकरणे त्वेवमुक्तं
चेइअदव्वं दुविहं, पूआ निम्मल्लभेअओ इत्थ । .. आयाणाई दव्वं, पूआरित्थं मुणेयव्वं ॥ अक्खयफलबलिवत्थाइ संतिअं जं पुणो दविणजायं। तं निम्मल्लं वुच्चइ, जिणगिहकम्मंमि उवओगो ॥
अत्र ढौकिताऽक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्राऽऽगमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिनापि क्वापि गच्छेऽपि नोपलभ्यते । यत्र च ग्रामादावादानादिद्रव्याऽऽगमोपायो नास्ति, तत्रा
१. पुण्यानुबन्धिपुण्य इति को० ह० प्र० पाठः । . २. लूहंता इति को० ह० प्र० पाठः ।