SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः . गिहचेइएसुन घडइ, इअरेसु वि जइवि कारणवसेण । तहवि न मुंचइ मइमं, सयावि तक्करणपरिणामं ॥ प्रदक्षिणादाने च समवसरणस्थचतूरूपश्रीजिनं ध्यायन् गर्भगृहे पृष्ठवामदक्षिणदिक्त्रयस्थबिम्बत्रयं वन्दते । अत एव सर्वस्यापि चैत्यस्य समवसरणस्थानीयतया गर्भगृहबहिर्भागे दिक्त्रये मूलबिम्बनाम्ना बिम्बानि कुर्वन्ति । एवं च ‘वर्जयेदर्हतः पृष्ठम्' इत्युक्तेरहत्पृष्ठनिवासदोषश्चतुर्दिक्ष्वपि टलति । ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्वं कृतसमग्रपूजासामग्रीकश्चैत्यव्यापारनिषेधरूपां द्वितीयनैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वं पूजां करोति । यद्भाष्यं तत्तो निसीहिआए, पविसित्ता मंडवम्मि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिअं॥ तयणु हरिसुल्लसंतो, कयमुहकोसो ज़िणिंदपडिमाणं । अवणेइ रयणिवंसिअं, निम्मल्लं लोमहत्थेणं ॥ जिणगिहपमज्जणं तो, करेड़ कारेइ वा वि अन्नेणं । .: जिणबिंबाणं पूअं तो विहिणा कुणइ जहजोगं ॥ .. मुखकोशश्चाष्टपुटपटप्रान्ते नास्यनासानिःश्वासनिरोधार्थं कार्यः । वर्षादौ च निर्माल्ये कुन्थ्वादिसंसक्तिरपि स्यात् तेन निर्माल्यं स्नात्रजेलं च पृथक् पृथग् जनाऽनाक्रम्यपवित्रस्थाने त्यज्यते, एवमाशातनाऽपि न स्यात् । गृहचैत्ये चार्चामुच्चैः स्थाने भोजनादावव्यापार्ये पवित्रपात्रे स्थापयित्वा करयुगधृतशुचिकलशादिजलेनाभिषिञ्चेत् । बालत्तणमि सामिअ, सुमेरुसिहरम्मि कणयकलसेहिं। तिअसासुरेहिं एहविओ ते धन्ना जेहिं ट्ठिोसि ॥ इत्यादि च तदा चिन्त्यम् । ततः सुयत्नेन वालककुञ्चिकां व्यापार्य, प्रक्षाल्याऽङ्गम्, अङ्गरुक्षणद्वयेन निर्जलतामापाद्य 'अख्रिजानुकरांसेषु मूर्ति पूजा यथाक्रमम्' इत्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिना-. ऽर्चयेत् । केऽप्याहुः पूर्वं भाले तिलकं कृत्वा नवाङ्गपूजा कार्या ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy