________________
५०
श्राद्धविधिकौमुदीसक्षेपः भ्रान्तसम्भ्रान्तं (३२) तीर्थङ्करादिमहापुरुषचरिताभिनयनिबद्धम् इति राजप्रश्नीये । (सूत्र-२३-२४) ___एवं महद्धिर्देवगृहे याति । सामान्यविभवस्त्वौद्धत्यपरिहारेण लोकोपहासं परिहरन् यथानुरूपाडम्बरं भ्रातृमित्रपुत्रादिपरिवृतो व्रजति । एवं जिनगृहे गत्वा, पुष्पताम्बूलसिद्धार्थदूर्वादीनां च क्षुरिकापादुकाकिरीटवाहनादीनां च सचिताचित्तद्रव्याणां परिहारेण किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण कृतैकपृथुलवस्त्रोत्तरासङ्गो दृष्टे जिनेन्द्रेऽञ्जलिबन्धं शिरस्यारोपयन् 'नमो जिणाणं' इति भणन्, प्रणमन्, मनसश्चैकाग्रयं कुर्वन् इति पञ्चविधाभिगमेन नैषेधिकीपूर्वं प्रविशति । यदार्षम्- .
सचित्ताणं दव्वाणं विउसरपायाए अचित्ताणं दव्वाणे अविउसरणयाए एगल्लसाडएणं उत्तरासंगेणं चक्खुंफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं ति (औपपातिक सूत्र०३२) । राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिह्नानि त्यजति । यतः
अवहट्ट रायककुहाइं पंच वररायककुहरूवाइं। - खग्गं छत्तो आहण मउडं तह चामराओ अ॥
अग्रद्वारप्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते, इति ज्ञापनार्थं नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादि-व्यापारस्यैकस्यैव निषिद्धत्वात् । ततो मूलबिम्बस्य प्रणामं कृत्वा, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं दद्यात् । उक्तञ्च
तत्तो णमो जिणाणंति भणिअ अद्धोणयं पणामं च । काउं पंचगं वा भत्तिब्भरनिब्भरमणेणं ॥ पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेणं । .. पढमाणो जिणगुणगणनिबद्धमंगल्लथुत्ताई॥ करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउत्तो । दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसु ॥