________________
प्रथमः प्रकाशः .
तलताल-कांस्यतालासु वाद्यमानासु, रिगिसिका-लत्तिका-मकरिकाशिशुमारिकासु घर्घ्यमाणासु, वंश-वेणु-वाली-पिरली-बन्धूकेषु फुक्यमानेषु, ते सर्वे दिव्यकन्याकुमाराः समकं गायन्ति नृत्यन्ति । [द्वात्रिंशद्] नाटकतामान्यमूनि (१) स्वस्तिक-श्रीवत्स-नन्द्यावर्त्तवर्द्धमानक-भद्रासन-कलश-मत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिविचित्रं (२) आवर्त्त-प्रत्यावर्त्त-श्रेणि-प्रश्रेणि-स्वस्तिक-पुष्यमान-वर्द्धमानमत्स्याण्डक-मकराण्डक-जारमार-पुष्पावलि-पद्मपत्र-सागरतरङ्गघासंतीलता-पद्मलता-भक्तिचित्रं (३) ईहामृग-ऋषभ-तुरग-नर-मकरविहग-व्याल-किन्नर-रुरु-शरभ-चमर-कुञ्जर-वनलता-पद्मलताभक्तिचित्रं (४) एकतश्चक्र-एकत:खड्ग-एकतश्चक्रवाल-द्विधाचक्रवालचक्रार्द्धचक्रवालं (५) चन्द्रसूर्यवलयताराहंसैकमुक्ताकनकरत्नावलिप्रविभक्त्यभिनयात्मकावलिप्रविभक्तिः (६) चन्द्रोद्गमसूर्योद्गमप्रविभक्तियुक्ततदुद्गमनप्रविभक्तिः (७) चन्द्रसूर्यागमनप्रविभक्तियुक्तागमनप्रविभक्तिः (८) चन्द्रसूर्यावतरणप्रविभक्तिः (९) चन्द्रसूर्यास्तमनप्रविभक्तिः (१०) चन्द्र-सूर्य-नाग-यक्ष-भूत-राक्षस-महोरग-गन्धर्वमण्डल-प्रविभक्तिः (११) ऋषभ-सिंह-ललित-हयगज-विलसितमत्तहयगज-विलम्बिताभिनयरूपद्रुतविलम्बितं (१२) सागरनागरप्रविभक्तिः (१३) नन्दाचम्पाप्रविभक्तिः (१४) मत्स्याण्डक-मकराण्डकजारमारप्रविभक्तिः (१५) कखगघङप्रविभक्तिः (१६) चछजझजप्रविभक्तिः (१७)- टठडढणप्रविभक्तिः (१८) तथदधनप्रविभक्तिः (१९) पफबभमप्रविभक्तिः (२०) अशोक-आम्र-जम्बू-कोसंब-पल्लवप्रविभक्तिः (२१) पद्मनागाशोकचम्पकचूतवनकुन्दातिमुक्तकश्यामलताप्रविभक्तिः (२२) द्रुतं (२३) विलम्बितं (२४) द्रुतविलम्बितं (२५) अञ्चितं (२६) रिभितं (२७) अञ्चितरिभितं (२८) आरभटं (२९) भसोलं (३०) आरभटभसोलं (३१) उत्पातनिपातप्रवृत्तसङ्कुचितप्रसारितरेचकरचित