________________
४८
श्राद्धविधिकौमुदीसक्षेपः किणित-कडम्बा-दर्दरक-दर्दरिका-कुस्तुम्ब-कलशिका-तलतालकांस्यताल-रिगिसिका-मकरिका-शिशुमारिका-वंश-वाली-वेणुपरिली-बन्धूकप्रमुखविधवाद्यवादकाः प्रत्येकमष्टोत्तरशतं । शङ्खिका लघुशङ्खः किञ्चित्तीक्ष्णस्वरः, शङ्खस्तु गम्भीरस्वरः । पेया महाकाहला । परिपरिका कोलिकपुटावनद्धमुखवाद्यं । पणवः पटहविशेषो भाण्डपटहो । भम्भा ढक्का । होरम्भा महाढक्का । भेरी ढक्काकृति वाद्यविशेषः । झल्लरी चर्मावनद्धा विस्तीर्णवलयाकारा । दुन्दुभिः भेर्याकारं सङ्कटमुखं देवतोद्यं । मुरजो महामर्दलं । मृदङ्गं लघुमर्दलं । नान्दीमृदङ्गमेकत: सङ्कीर्णमन्यतो विस्तृतं । आलिङ्गो मुरजविशेषः । कुस्तुम्बश्चर्मावनद्धः थुङः । मर्दलमुभयतः समं । विपञ्ची त्रितन्त्री वाणा । बल्लकी सामान्यतो वीणा । परिवादिनी सप्ततन्त्री वीणा | महती. शततन्त्री वीणा । तुम्बवीणा तुम्बयुक्तवीणा । मुकुन्दो मुरजविशेषो योऽतिलीनं प्रायो वाद्यते । हुडुक्का प्रसिद्धा । डिंडिभः प्रस्तावनासूचकपणवविशेषः । कडम्बा करटिका । दर्दरकः प्रसिद्धः । स लघुः दर्दरिका । तलो हस्ततलः । वाली तूणविशेषो मुखवाद्यं । बन्धूकस्तूणविशेषः । शेषभेदा, लोकाज्ञयाः । सर्वेऽप्यातोद्यभेदा एकोनपञ्चाशदातोद्यभेदेष्वन्तर्भवन्ति । यथा वंशे वालीवेणुपरिलीबन्धूकातोद्यानि । शङ्खशृङ्गशङ्खिकासुरमुखीपेयापरपरिकासु गाढं ध्मायमानासु, पटहपणवेष्वाहन्यमानेषु, भम्भाहोरम्भाष्वास्फाल्यमानासु, भेरीझल्लरीदुन्दुभिषु ताड्यमानासु, मुरजमृदङ्गनान्दीमृदङ्गेष्वालप्यमानेषु, आलिङ्ग-कुस्तुम्बगोमुखीमर्दलेषु बलात्ताड्यमानेषु, विपञ्चीवीणावल्लकीषु मूर्च्यमानासु, भ्रामरीषड्भ्रामरीपरिवादिनीषु स्पन्द्यमानासु बब्बीसासुघोषानन्दिघोषासु सार्यमाणासु, महतीकच्छपिचित्रवीणासु कुट्यमानासु, आमोटझंझानकुलेष्वामोट्यमानेषु, तुणतुम्बवीणासु . स्पृश्यमानासु, मुकुन्दहुडुक्काचिच्चिकीषु मूळमानासु, करटीडिंडिमकिणितकडंबासु, वाद्यमानासु, दर्दर-दर्दरी-कुस्तुम्ब-कलशिकासु बाढं ताड्यमानासु,