________________
प्रथमः प्रकाशः . पारितवस्त्रान्तरेभ्यश्च पृथङ् मोच्यं, तच्च परसत्कं प्रायो वर्जनीयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं। अत्र धौतिके ज्ञातम् । ततः सुस्थानात् स्वयं ज्ञातगुणसुमानुषपार्थाद्वा पवित्रभाजनाच्छादनाऽऽनेतृमार्गादियुक्त्या पानीयपुष्पाद्यानयनम्, पानीयपुष्पाद्यर्पयितुः सुमूल्यार्पणादिना प्रीणनम् । एवं मुखकोशपवित्रस्थानादियुक्त्या असंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डघर्षणं । संशोधितजात्यधूपप्रदीपाखण्डचोक्षादिविशेषाक्षतविशिष्टाऽनुच्छिष्टनैवेद्यहृद्यफलादिसामग्रीमीलनम् । एवं द्रव्यतः शुचिता । भावतः शुचिता तु. रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागेनैकाग्रचित्तता । उक्तञ्च
मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः ।
शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ॥ एवं द्रव्यभावाभ्यां शुचिहे=गृहचैत्ये
आश्रयन् दक्षिणां शाखां पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाज्रिणा ततः ॥ सुगन्धिमधुरैर्द्रव्यैः प्राङ्मुखो वाप्युदङ्मुखः ।
वामनाड्यां प्रवृत्तायां मौनवान् देवमर्चयेत् ॥ इत्याद्युक्तेनं नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनः चन्दनभाजनाच्चन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितधूपधूपितहस्तद्वयो - जिनम् = अर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक् कृतमकृतं वा यथाशक्ति करोति =देवसाक्षिकमुच्चारयंतीति पञ्चमगाथार्थः ॥५॥ ततः
विहिणा जिणं जिणगिहे, गंतुं अच्चेइ उचिअचिंतरओ। उच्चइ पच्चक्खाणं, दढपंचाचारगुरुपासे ॥६॥ १. विशिष्टातुच्छ इति को० ह० प्र० पाठः ।