________________
४६
श्राद्धविधिकौमुदीसक्षेपः ___'विहिणात्ति' विधिनेति पदं सर्वत्रापि योज्यम् । ततो विधिना जिनगृहे गत्वा विधिना, उचितचिन्तारतो विधिना जिनमर्चयति । विधिश्चायं, यदि राजादिमहर्द्धिः तदा सव्वाए इड्डीए, सव्वाए दित्तीए, सव्वाए जुईए, सव्वबलेणं, सव्वपोरिसेणं इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति । यथा दशार्णभद्रनृपः तथा श्रीवीरं ववन्दे यथा प्राक् केनापि न वन्दितः इत्यहङ्कृतिकृतपरमा सर्वाङ्गीणशृङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यकिकाधिरूढान्तःपुरादिरूपया श्रीवीरं वन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीवीरं वन्दितुमागच्छन् दिव्यद्धि विचक्रे । उक्तञ्च वृद्धर्षिमण्डलस्तवे
चउसट्ठि करिसहस्सा, पणसय बारससिराई पत्तेअं ।' कुंभे अड अड दंता, दंतेसु अ वावि अट्ठट्ठ ॥ अट्ठ लक्खपत्ताई, तासु पउमाई हुंति पत्तेयं । पत्ते पत्ते बत्तीस, बद्धनाडयविही दिव्वो ॥ .. एगेगकण्णिआए, पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धि उवगिज्जइ सो तर्हि सक्को ॥ ... एयारिसइवीए, विलग्गमेरावणम्मि दट्ट हरिं ।
राया दसन्नभद्दो, निक्खंतो पुन्नसपइन्नो ॥ अत्र पूर्वाचार्यप्रणीता हस्तिमुखादिसङ्ख्यागाथा । यथा
मुहपणसयबारूत्तरसहस्सा चत्तारि छन्नवइं देता। बत्तीससहस्स सगसय अडसट्ठी वावीपरिमाणं ॥ कमलाणं दोलक्खा, सहस्सबासट्टिसइगुचोआलं । कण्णिअपासायाणं, 'णेया संखा कमलसरिसा ॥ छव्वीसं कोडिसया इगवीसं कोडिलक्खचउचत्ता । इगकरिकमलदलाणं, 'माणं सिरिसक्करायस्स ॥
१. नाडय इति को० ह० प्र० पाठः । २. संखा इति को० ह० प्र० पाठः ।