________________
४४
श्राद्धविधिकौमुदीसक्षेपः पवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाघ्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तराभिमुखः सन्धत्ते दिव्यं नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् । यतः
विशुद्धि वपुषः कृत्वा यथायोगं जलादिभिः। ... धौतवस्त्रे च सीते[ सिते] द्वे विशुद्धे धूपधूपिते ॥ .... लोकेऽप्युक्तं न कुर्यात्सन्धितं वस्त्रं देवकर्मणि भूमिप !। न दग्धं न तु वैच्छिन्नं परस्य तु न धारयेत् ॥ .. कटिस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् । .. समूत्रमैथुनं चापि तद्वस्त्रं परिवर्जयेत् ॥ . . : “एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् ।
न कञ्चकं विना कार्या देवार्चा स्त्रीजनेन तु ॥... एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं श्वेतमेव कार्यम् । उदायनृपराज्ञीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं । दिनकृत्यादावपि-सेयवत्थनिअंसणोत्ति (श्रा० दि० कृ० २४) क्षीरोदकांशुकाद्यशक्तावपि दुकूलादि धौतिकं विशिष्टमेव कार्यम् । यदुक्तं पूजाषोडशके-सितशुभवस्त्रेणेति (९.५) । तवृत्तिर्यथा-सितवस्त्रेण शुभवस्त्रेण च, शुभमिह सितादन्यदपि पट्टयुग्मादि, रक्तपीतादिवर्णं परिगृह्यते इति ।। ___एगसाडिअं उत्तरासंगं करे इत्याद्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्य न तु खण्डद्वयादिरूपम्। न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किन्त्वन्यधौतिकवद् दुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयं, व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना च पावनीयं, धौतिकं च स्वल्पवेलमेव व्यापार्यं, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम् अपावित्र्यप्रसक्तेः, व्या
१. संव्यवयते इति को० ह० प्र० पाठः ।