________________
प्रथमः प्रकाशः
चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गङ्गा तस्य पराङ्मुखी ॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः।
गङ्गाऽप्याह कदागत्य मामयं पावयिष्यति ॥ स्नाने चासङ्ख्यजीवमयजलशैवलाद्यनन्तजन्तूनामगलितजले तदाश्रितपूतरादित्रसानां विराधनया सदोषत्वं प्रतीतं जलस्य जीवमयत्वं च लोकेऽप्युक्तम् । यदुत्तरमीमांसा
लूताऽऽस्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः ।
सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ इत्यादि । भावस्नानमाह
ध्यानाम्भसा तु जीवस्य सदा यच्छुद्धिकारणम् ।
मलं कर्म समाश्रित्य भावस्नानं तदुच्यते ॥ कस्यचित् स्नाने कृतेऽपि यदि गडुक्षतादि स्रवति, तदा तेनाङ्गपूजा स्वपुष्पचन्दनादिभिः परेभ्य: कारयित्वा अग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन स्वयमङ्गपूजाया निषिद्धत्वात्, उक्तञ्च
निःशूकत्वादशौचोऽपि देवपूजां तनोति यः ।
पुष्पैर्भूपतितैर्यश्च भवतः श्वपचाविमौ ॥१॥ . यतः
उच्छिट्टे फलकुसुमं, नेविज्जं वा जिणस्स जो देइ । ..सो नीअगोअकम्म, बंधइ पायन्नजम्मंमि ॥ - (अत्राशौचे भूपतितपुष्पैश्च देवपूजायां मातङ्गकथा)
अतो भूपतितं पुष्पं सुगन्ध्यपि देवस्य नारोप्यम् । स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयम्, विशिष्य चोच्छिष्टिदिने स्त्रीभिवृहदाशातनादिदोषात् । ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाऽङ्गरूक्षणपौतिकमोचन