________________
४२
श्राद्धविधिकौमुदीसक्षेपः जलेन देहदेशस्य क्षणं यच्छुद्धिकारणम् ।
प्रायोऽन्यानुपरोधेन द्रव्यस्नानं तदुच्यते ॥ देहदेशस्य त्वङ्मात्रस्यैव प्रभूतकालं, प्रायः शुद्धिहेतुर्न त्वेकान्तेन तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धेः, प्रक्षालनाऽर्हमलादन्यस्य मलस्य कर्णनासाधन्तर्गतस्याऽनुपरोधेनाऽप्रतिषेधेन, यद्वा प्रायो जलादन्येषां प्राणिनामनुपरोधेन अव्यापादनेन द्रव्यस्नानं बाह्यस्नानमित्यर्थ: । ... कृत्वेदं यो विधानेन देवतातिथिपूजनम् ।
करोति मलिनारम्भी तस्यैतदपि शोभनम् ॥ .... विधानेन-विधिना, अतिथि:-साधुः, मलिनारम्भी-गृहस्थः, द्रव्यस्नानस्य शोभनत्वे हेतुमाह
भावशुद्धेनिमित्तत्वात्तथाऽनुभवसिद्धितः।
कथञ्चिद्दोषभावेऽपि तदन्यगुणभावतः ॥ युग्मम् ।। दोषोऽप्कायविराधनादिः, तस्माद्दोषाद् सद्दर्शनशुद्धिलक्षणः । यदुक्तं
पूआए कायवहो पडिकुट्ठो सो उ किन्तु जिणपूआ ।
सम्मत्तसुद्धिहेउत्ति भावणीआ उ निरवज्जा ॥ एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं, तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम् । तीर्थविहितेनापि स्नानेन हि देहस्यैव काचिच्छुद्धिः स्यात्, न तु जीवस्यांऽशतोऽपि । उक्तञ्च स्कन्दपुराणे काशीखण्डे षष्ठाध्याये
मृदो भारसहस्रेण जलकुम्भशतेन च। .. न शुध्यन्ति दुराचाराः स्नातास्तीर्थशतैरपि ॥ जायन्ते च म्रियन्ते च जलेष्वेव जलौकसः। न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः ॥ .. चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गां विनाप्यसौ ॥