________________
प्रथमः प्रकाशः .
५१
असकृज्जलपानात्तु ताम्बूलस्य च भक्षणात् ।
उपवासः प्रदूष्येत दिवा स्वापाच्च मैथुनात् ॥ स्नानमप्युत्तिङ्ग-पनक-कुन्थ्वाद्यसंसक्त-वैषम्य-शुषिराद्यदूषितभूभागे परिमितवस्त्रपूतजलेन सम्पातिमसत्त्वरक्षणादियतनया कुर्यात् । उक्तञ्च दिनकृत्ये
तसाइजीवरहिए भूमीभागे विसुद्धए । फासुएणं तु नीरेणं, इअरेणं गलिएण उ॥ (श्रा० दि० कृ० २३)
काऊणं विहिणा पहाणंति । व्यवहारशास्त्रे त्वेवमुक्तं
नग्नाऽऽर्तः प्रोषितायातः सचेलो भुक्तभूषितः । नैव स्नायादनुव्रज्य बन्धून् कृत्वा च मङ्गलम् ॥ अज्ञाते दुष्प्रवेशे च मलिनैर्दूषितेऽथवा । तरुच्छन्ने ससेवाले न स्नानं युज्यते जले ॥ . स्नानं कृत्वा जलैः शीतैर्भोक्तुमुष्णं न युज्यते । जलैरुष्णैस्तथा शीततैलाभ्यङ्गश्च सर्वदा ॥ स्नातस्य विकृता छाया दन्तघर्षः परस्परम् । देहे च शवगन्धश्चेन्मृत्युस्तद्दिवसत्रये ॥ स्नातमात्रस्य चेच्छोषो वक्षस्यघ्रिद्वयेऽपि च । षष्ठे दिने तदा ज्ञेयं पञ्चत्वं नात्र संशयः ॥ रते वान्ते चिताधूमस्पर्शे दुःस्वप्नदर्शने। क्षौरकर्मण्यपि स्नायाद् गलितैः शुद्धवारिभिः ॥ अभ्यक्तस्नाताशितभूषितयात्रारणोन्मुखैः क्षौरम् । विद्यादि निशासंध्यापर्वसु नवमेऽह्नि च न कार्यम् ॥ कल्पयेदेकशः पक्षे रोमश्मश्रुकचान्नखान् ।
न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ॥ स्नानं च वपुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तञ्च द्वितीयेऽष्टकप्रकरणे