________________
३७
प्रथमः प्रकाशः . अथाग्रतो व्याख्यायते-सूईपूईअ इत्यादि, शुचिरिति मलोत्सर्गदन्तधावनजिह्वालेखनगण्डूषकरणसर्वदेशस्नानादिना पवित्रः सन्नित्यनुवादपरं, लोकसिद्धो ह्ययमर्थ इति नोपदेशपरं, अप्राप्ते हि शास्त्रमर्थवत्, न हि मलिनः स्नायाद्, बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे शास्त्रोपदेशसाफल्यम् । एवमन्यत्रापि ज्ञेयम् । सावद्यारम्भेषु हि शास्तृणां वाचनिकी अपि अनुमोदना न युक्ता । यदाहुः
सावज्जाणवज्जाणं, वयणाणं जो न जाणइ विसेसं ।
वोत्तुंपि तस्स न खमं, किमं पुण देसणं काउं॥ मलोत्सर्गश्च मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः । 'यतः
मूत्रोत्सर्ग मलोत्सर्ग मैथुनं स्नानभोजने । ___सन्ध्यादिकर्म पूजां च कुर्याज्जापं च मौनवान् ॥ विवेकविलासेऽपि- . . मौनी वस्त्रावृतः कुर्याद्दिने सन्ध्याद्वयेऽपि च ।
उद्ङ्मखः शकृन्मूत्रे सत्रौ याम्याननः पुनः ॥ नक्षत्रेषु समग्रेषु भ्रष्टतेजस्सु भास्वतः । यावदोदयंस्तावत्प्रातःसन्ध्याऽभिधीयते ॥ अर्के स्तमिते यावन्नक्षत्राणि नभस्तले । द्वित्राणि नैव वीक्ष्यन्ते तावत्सायं विदुर्बुधाः ॥ भस्मंगोमयगोस्थानवल्मीकशकृदादिमत् । उत्तमंद्रुमसप्ताचिर्मार्गनीराश्रयादिमत् ॥
स्थानं चितादिविकृतं तथा कूलङ्कषातटम् । _ 'स्त्रीपूज्यागोचरं वयं वेगाभावेऽन्यथा न तु ॥ युग्मम् ॥ श्रीओघनिर्युक्त्यागमे तु साधुमाश्रित्यैवमुक्तम्१. उक्तं विवेकविलासे इति को० ह० प्र० पाठः । २. स्त्री पूज्य इति को० ह० प्र० पाठः ।