________________
श्राद्धविधिकौमुदीसक्षेपः तच्चानाहारमिदम्
अणाहारो मोअछल्लीमूलं च फलं च होइ अणाहारो। __ पूर्वार्द्धम् । मोकं कायिकी छल्ली निम्बादित्वक, मूलं पञ्चमूलादिकं, फलं च आमलक-हरीतक-बिभीतकादिकमेतत्सर्वमनाहारो भवतीति चूर्णिः । निशीथचूर्णौ तु या निम्बादीनां छल्ली त्वक्, यच्च तेषामेव निम्बोलिकादिकं फलं, यच्च तेषामेव मूलमेवमादिकं सर्वमप्यनाहार इति ।
. .. प्रत्याख्यानोच्चारे च पञ्चस्थानानि, आद्यस्थाने नमस्कारसहितादिकालप्रत्याख्यानं सर्वं प्रायश्चतुर्विधाहारम् १। द्वितीयस्थाने विकृतिनिर्विकृत्याचामामाम्लोच्चारः विकृलिप्रत्याख्यानं चास्वीकृतविकृतिनैयत्यानामपि प्रायेणाऽभक्ष्यविकृतिचतुष्कत्यागात्सर्वेषां स्यात् २। तृतीयस्थाने एकद्व्यासनादिद्वित्रिचतुर्विधाहारम् ३। चतुर्थस्थाने पाणस्सेत्यादि ।। पञ्चमस्थानके देशावकाशिकव्रतं प्राग्गृहीतसचित्तादिचतुर्दशनियमसक्षेपरूपमुच्चार्यते प्रातः ५। सायं च उपवासाचामाम्लनिर्विकृतिकानि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृतिकादि पौरुष्यादि च 'द्विविधाहारमपि स्यात् । तदाहु:
साहूणं रयणीए, नवकारसहिअं चउव्विहाहारं । भवचरिमं उववासो, अंबिल तिहचव्विहाहारं ॥ सेसा पच्चक्खाणा, दुहतिहचउहावि हुंति आहारे।
इअ पच्चक्खाणेसु, आहारविगप्पणा नेआ ॥ निर्विकृतिकाचामाम्लादौ कल्प्याकल्प्यविभागः स्वस्वसामाचारीतो ज्ञेयः सिद्धान्ताद्यनुसारेण । अनाभोगसहसाद्याकार-व्यक्त्यादिस्वरूपं च प्रत्याख्यानभाष्याद्युक्तं (गा० १६-२२) सम्यग् हृदि निधेयम्, अन्यथा प्रत्याख्यानस्य शुद्धत्वाद्यसम्भवात् ।
एवं सूत्रगाथोत्तरार्द्ध 'पडिक्कमिअत्ति' पदं सप्रसङ्गं व्याख्यातम्,