________________
प्रथमः प्रकाशः .
___ एकाङ्गिक:-शुद्ध एव क्षुधां शमयति, स आहारो ज्ञेयोऽत्र, सोऽशनादिश्चतुर्धा, यद्वा तत्राहारेऽन्यल्लवणादिकमयति प्रविशति तदप्याहारो ज्ञेय इति । अथैकाङ्गिकं चतुर्विधमाहारं व्याचष्टे
कूरो नासेई छुहं, एगंगी तक्कउदगमज्जाई। . खादिमफलमसाई साइम्मि महुफाणिताईणि ॥ अथवा 'जं वा आईइ तर्हिति' पदं व्याख्याति
जं पुण खुहापसमणे, असमत्थेगंगि होइ लोणाई। __तं पिअ होइ आहारो, आहारजुअं च विजुअं वा ॥
यत्पुनरैकाङ्गिकं क्षुधाप्रशमनेऽसमर्थं परमाहारे उपयुज्यते, तदप्याहारे संयुक्तमसंयुक्तं वा आहारो भवति, तच्च लवणादिकं, तत्राऽशने लवणहिंगु-जीरकादिकमुपयुज्यते । .
उदए कप्पूराई, फलिसुत्ताईणि सिंगवेरगुले । - न य ताणि खर्विति खुहं, उवगारित्ताउ आहारो ॥
'उदके कर्पूरादिकं आम्रादिफलेषु सुत्रादीनि द्रव्याणि, शृङ्गबेरेशुण्ठयां गुड उपयुज्यते, न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परंमुपकारित्वादाहार उच्यते ।
अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवइ कोटे। .. सव्वो सो आहारो, ओसहमाई पुणो भइओ ॥
औषधादिकं तु किञ्चिदाहारः किञ्चिदनाहारः इत्यर्थः, तत्र शर्करादिकमौषधमाहारः सर्पदष्टादेर्मृत्तिकादिकमौषधमनाहारः । . जंवा भुक्खत्तस्स उ, संकसमाणस्स देइ आसायं ।
, सव्वो सो आहारो, अकामऽणिटुं चऽणाहारो ॥ यद्वा द्रव्यं बुभुक्षातस्य सङ्कर्षतो ग्रसमानस्य भक्षयत आस्वादं प्रयच्छति स सर्व आहारः । यत् पुनरकाममभ्यवहरामीत्येवमनभिलषणीयम् अनिष्टं च जिह्वाया अरुच्यम् ईदृशं सर्वमनाहारो भण्यते । '