________________
३४
श्राद्धविधिकौमुदीसक्षेपः द्विविधाहारप्रत्याख्याने कल्पते । वेसण-विरिहाली-सोआ-कउठवडीआमलागन्ठी-आम्बागोली'-कउठीपत्र-लिम्बूईपत्रप्रमुखं स्वाद्यत्वादिना द्विविधाहारे न कल्पते, त्रिविधाहारे तु जलमेव कल्पते । तत्रापि फुङ्कानीरं सीकरी-कर्पूर-एला-कत्थ-खदिर-चूर्ण-कसेल्लंक-पाडलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि स्वाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते । उक्तञ्च नागपुरीयगच्छप्रत्याख्यानभाष्ये- .
दक्खापाणाईअं पाणं तह साइमं गुडाई।
पढिअं सुअम्मि तहवि हु तित्ती जणगंति नापरिअं॥ स्त्रियाः सम्भोगे चतुर्विधाहारं न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि, अन्यथोपवासाचामाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरं सम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् ।
अनाहारतया व्यवह्रियमाणानि, यथा-पञ्चाङ्गनिम्ब-मूत्र-गुडुचीकडु-किरिआतउं-अतिविष-कुडउ-चीड-सूकडी-रक्षा-हरिद्रा-रोहिणिऊपलोट-वच-त्रिफला-बाउलछल्लीत्यन्ये । धमासउ-नाहि-आसन्धिरिंगणी-एलिओ-गुगूल-हरडादालि-वउणि-बदरी-कन्थेरि-करीरमूलपुंआङ-बोड-थेरी-आछी-मजीठ-बोल-वीओ-कुंवारि-चित्रककुंदरुप्रभृत्यनिष्टास्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानि । श्रीकल्पतवृत्तितुर्यखण्डेऽप्युक्तम्
परिवासिअआहारस्स, मग्गणा को भवे अणाहारो । सूरि:-आहारो एगंगिओ, चउव्विहु जं वा आईइ तहिँ ॥
१. गोटी इति को० ह० प्र० पाठः ।