________________
प्रथमः प्रकाशः .
रुपवासाः । यदुक्तं पद्मचरित्रे
भुंजइ अणंतरेणं, दुन्निउ वेलाउ जो नियोगेणं । सो पावइ उववासा अट्ठावीसं तु मासेणं ॥ इक्कंपि अह मुहत्तं परिवज्जइ जो चउव्विहाहारं । मासेण तस्स जायइ, उववासफलं तु सुरलोए ॥ दसवरिससहस्साउ, भुंजइ सो (जो) अन्नदेवया भत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥ एवं मुहुत्ती , उपवासे छठ्ठअट्ठमाईए । जो कुणइ जहाथामं तस्स फलं तारिसं भणिअं॥
एवं युक्त्या ग्रन्थिसहितप्रत्याख्यानफलमप्यनन्तरोदितं भाव्यम् । प्रत्याख्यानं च सर्वं पुनः पुनः स्मर्त्तव्यं स्वस्वावधिपूर्ती च पूर्णं मेऽमुकप्रत्याख्यानमित्यादि चिन्त्यम् । भोजनसमयेऽपि पुनः स्मर्त्तव्यमन्यथा जातु भङ्गाद्यपि स्यात् । ___ अशनादिविभागश्चैवम्-अन्नपक्वान्नमण्डकसक्तु कादि सर्वं क्षुधोपशमसमर्थम् अशनं, तक्रोदक्रमद्यादि पानं, फलेक्षुपृथुकसुखभक्षिकादि खाद्यं, स्वाद्यं शुण्ठी-हरीतकी-पिप्पली-मरीच-जीरकअजमक-जातिफल-जावित्री-कसेल्लक-कत्थक-खंदिरवटिकाज्येष्ठीमधु-तज़-तमालपत्र-एला-लवङ्ग-कोठीविडंग-बिडलवणअजंक-अजमोदा-कुलिंजण-पिप्पलीमूल-चिणीकबाबा-कच्चूरकमुस्ती-कंट्रासेलिओ-कर्पूर-संचल-हरडा-बिभीतक-कुम्भठवो-बब्बूलधव-खदिर-खीजडादिछल्ली-पत्र-पूग-हिङ्गुलाष्टक-हिङ्गुत्रेवीसओपञ्चकूल-पुष्करमूल-जवासकमूल-बावची-तुलसी-कपूरीकन्दादिकम् । जीरकं स्वभाष्यप्रवचनसारोद्धाराद्यभिप्रायेण स्वाद्यं, कल्पवृत्त्यभिप्रायेण तु खाद्यम् अजमकं खाद्यमिति केचित् ४। सर्वं स्वाद्यं एलाकर्पूरादिजलं च
१. ठिओ इति को० ह० प्र० पाठः । २. पच्च० भा० गा० १५ ।