________________
श्राद्धविधिकौमुदीसक्षेपः क्रियन्ते । नमस्कारसहितं च यदि सूर्योदयात् प्रागुच्चारितं तदा 'तत्पूर्तेरन्यदपि पौरुष्यादिकालप्रत्याख्यानं सर्वं क्रियते स्वस्वावधिमध्ये । नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुद्धयति यदि दिनोदयात्प्राग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूर्ध्वमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति . वृद्धव्यवहारः । नमस्कारसहितस्य मुहूर्तप्रमाणत्वमल्पाकारत्वादेव लभ्यते, मुहूर्तानन्तरमपि नमस्कारपाठं विना भोजनेऽस्य भङ्ग एव नमस्कारसहितेत्युच्चारणात् । प्रमादपरिजिहीर्षोर्हि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति । नमस्कारसहितादिकालप्रत्याख्यानपूर्तिसमये ग्रंन्थिसहितादि कार्य, ग्रन्थिसहितं च बहुवारौषधादिभोजिना बालग्लानादीनामपि सुसाध्यं, नित्यमप्रमत्ततानिमित्ततया च महाफलं, सकृत् कृतग्रन्थिसहितमात्रकपर्दियक्षीभूतमांसमद्याद्यासक्तकुविन्दादेरिव । उक्तञ्च
जे निच्चमप्पमत्ता, गंठिं बंधंति गंठिसहिअस्स। सग्गापवग्गसुक्खं तेहिं निबद्धं सगंठिम्मि ॥ भणिऊण नमुक्कारं, निच्चं विस्सरणवज्जिअं धन्ना । पारंति गंठिसहियं गंठिसह कम्मगंठिहिं ॥ इअ कुणइ ए अब्भास अब्भासं सिवपुरस्स जइ महसि ।
अणसणसरिसं पुण्णं, वयंति एअस्स समयन्नू ॥.. रात्रिचतुर्विधाहारपरिहार-स्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधीनां ग्रन्थिसहितप्रत्याख्यानपालनेन एकवारभोजिनः प्रतिमासमेकोनत्रिंशद्, द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयघटीचतुष्टयसम्भवे त्वष्टाविंशति
.
१. तत्पूर्तेरन्वपि इति को० ह० प्र० पाठाः । २. सुसाधम् इति को० ह० प्र० पाठः ।